विकिपीडिया-पुस्तकदन्तकः/२०१६ संस्करणम्/पाठ्यम्

From Outreach Wiki
Jump to navigation Jump to search
This page is a translated version of the page Welcome to Wikipedia (Bookshelf)/2013 edition/text and the translation is 98% complete.

To produce a print version in your language, please see the localization guide for Editing Wikipedia.

See also: wikisource:Editing Wikipedia
Final version

p. 1: Front cover

Concept: A Wikipedia editor (TBD)'s photograph accompanies the entire brochure and offers guidance and explains concepts. This editor should be a local community member from the language Wikipedia in which the brochure is translated (so an English Wikipedian for English, an Arabic Wikipedian for Arabic, etc.).

विकिपीडिया-सम्पादनम्

संयुक्तज्ञानकोषस्य (online encyclopedia) उन्नत्यै काचित् मार्गदर्शिका

२००४ तः अहं विकिपीडिया-जाले लिखन् अस्मि, यतो हि निःशुल्कस्य, विश्वसनीयस्य च सन्दर्भस्य निर्माणं मह्यं रोचते। विकिपीडिया-जाले कार्यं कथं करणीयम् इत्यस्मिन् सन्दर्भे युष्माकं साहाय्यं कृत्वा कृतज्ञोऽहम्। यूयं विकिपीडिया-जाले स्वज्ञानं योजयित्वा एतत् समृद्धं कुरुत।


Note: reason for contributing can change based on which editor we use's actual reasons for contributing.

p. 2: Intro (inside cover)

कस्यचित् तादृशस्य विश्वस्य कल्पनां कुरुत, यस्मिन् प्रत्येका व्यक्तिः किमपि वस्तु निःशुल्कम् अन्यस्मै दातुं शक्नोति। एतदेव अस्माकं वचनम्।

विकिपीडिया, विकिमीडिया इत्येतयोः अन्येभ्यः प्रकल्पेभ्यः एतत् किञ्चन लक्ष्यम् अस्ति, तस्य प्राप्त्यै सम्पूर्णे विश्वे व्याप्ताः स्वयंसेवकाः २००१ तः कृतसङ्कल्पाः। मानवीयज्ञानस्य एकस्मिन् स्थाने एकत्रीकरणं कर्तुम् अनेकेषां मानवानां ज्ञानम् आवश्यकम् — युष्माकम् अपि!

त्वं किम् अध्येतुं शक्नोषि

विकिपीडिया-जाले योगदानं कथं शक्यते इति एतस्याः मार्गदर्शिकायाः प्राप्स्यथ, अतः स्वस्य ज्ञानं वितरितुं यूयं मुक्ताः। यूयं प्राप्स्यथ :

  • विकिपीडिया इत्युक्ते किं, तच्च कथं कार्यं करोति
  • विकिपीडिया-जाले सञ्चरणं कथम्
  • विकिपीडिया-जाले योगदानं कथं कर्तुं शक्नुमः, किमर्थं च
  • काश्चन महत्त्वपूर्णाः नीतयः, याः विकिपीडिया-जालं विश्वसनीयं ज्ञानकोषं कुर्वन्ति
  • यथादृश्यसम्पादिकायाः उपयोगेन विकिपीडिया-जाले संपादनं कथं, तस्य व्यंजकानाम् (markup) उपयोगः कथम्
  • सामग्रीं योेजयितुं क्रमशः मार्गदर्शनम्
  • अन्यैः सदस्यैः सह सम्पर्कः कथम्

लघुमार्गः

यथा चित्रेऽस्मिन् प्रदर्शितं, तथा त्वं विकिपीडिया-जालस्य अद्यतनीं साङ्ख्यिकीं द्रष्टुम् इच्छसि?, तर्हि WP:STATS इति अन्वेषणमञ्जूषायां लिख।

WP:STATS पाठ्यमिदं विकिपीडिया-जाले लघुमार्गः इति उच्यते। त्वम् एतादृशान् लघुमार्गान् अन्यवेषणमञ्जूषायां अन्विष्य आवश्यकं पृष्ठं प्रति गन्तुं प्रभवसि।

एतस्यां विवरणिकायां, वयं लघुमार्गम् एवं उल्लिखितवन्तः | लघुमार्गः WP:STATS.


p. 3: What is Wikipedia? / free content

विकिपीडिया इत्युक्ते किम् ?

विकिपीडिया — किञ्चन स्वतन्त्रः ज्ञानकोशः, यं यः कोऽपि सम्पादयितुं शक्नोति। एतावता जातेषु विशालेषु सहयोगिप्रकल्पेषु अन्यतमः। शताधिकासु भाषासु उपलब्धानां लक्षशः लेखानां माध्यमेन विकिपीडिया-जालं सहस्रशः, लक्षशः मनुष्यैः नियमितया पठ्यते।

अत्यधिका पाठ्यसामग्री विकिपीडिया-जाले उपलब्धा अस्ति, परन्तु अनेकेषां महत्त्वपूर्णानां विषयानां स्थितिः दयनीया अस्ति। केषुचित् विषयेषु तु लेखाः अपि नोपलभ्यन्ते। वर्तमानकालीनानां लेखानां सूचनाम् अद्यतनीं कर्तुम्, अपूर्णानां लेखानां (stubs) विस्ताराय, युष्माकं भाषायाः विकिपीडिया-जाले अनुपलब्धेषु विषयेषु लेखान् लेखितुं च विकिपीडिया-जालं भवत्सदृशेषु सम्पादकेषु आश्रितम् अस्ति। विकिपीडिया-जाले युष्माभिः कृतं सम्पादनं विश्वस्य शतशः, सहस्रशः ततोधिकं लक्षशः व्यक्तीः आलोकितं (प्रबुद्धं) कर्तुं शक्नोति ।

यदा त्वं विकिपीडिया-जालाय प्रप्रथमं सम्पादनं करोषि, तदैव त्वं शतशः, सहस्रशः — विकिपीडियन्स् — इत्येतेषां दलस्य सदस्यः भवसि, ये विकिपीडिया-जाले निःशुल्कं ज्ञानदानं कुर्वन्ति। विकिपीडियन्स् इत्येते यत् सम्पादनं कुर्वन्तः सन्ति, तेन ते विश्वं परिवर्तितुं सक्षमाः सन्ति। परन्तु एकस्मिन् स्थाने ज्ञानस्य एकत्रीकरणाय इतोऽपि दीर्घतमा यात्रा अविशिष्टा अस्ति। अतः अस्मभ्यं युष्माकं सहयोगस्य आवश्यकता वर्तते।

त्वं विकिपीडिया-जालाय यत् योगदानं करोषि, तत् मुक्तं पाठ्यं भूत्वा "सार्वजनिक"स्य (commons) भागत्वेन तिष्ठति। मुक्त-प्रतिकृति-नियमस्य (Free license) अन्तर्गततया तत् पाठ्यम् अन्यैः सम्पादन-योग्यं, पुनरुपयोगयोग्यं च भवति।

विकिपीडिया-जाले सम्पादनं किमर्थम् ?

अद्यत्वे, अहं स्वस्य पितामहस्य जीवनकार्यस्य, स्थानीकेतिहासस्य, वंशपरम्परायै तस्य अभिलाषायाः च निर्वाहं कुर्वन् अस्मि। तत्र एतावदेव अन्तरम् अस्ति यद्, अहं तस्य माध्यमस्य उपयोगं कुर्वन्नस्मि, यत् मे पितामहस्य पार्श्वे नासीत्, तदेव - विकिपीडिया

वयं कस्यचित् तादृशस्य विश्वस्य आशां कुर्मः, यत् अधिकं उन्मुक्तम्, अधिकं शिक्षितम्, अधिकं स्वतंत्रञ्च स्यात्। वयं कञ्चित् तादृशं विश्वम् इच्छामः, यस्मिन् ज्ञानं तेभ्यः सर्वेभ्यः उपलब्धं स्यात्, ये ज्ञानेच्छुकाः स्युः।

यदि त्वया यत् लिख्यमानं पाठ्यम् अस्ति, तत् यथार्थम्, उचिततया च लिखितम् अस्ति, तर्हि तत् असङ्ख्याकाः जनाः प्रतिदिनं पठिष्यन्ति। (यदि तथा नास्ति, तर्हि तत् शीघ्रं हि अदृश्यं भविष्यति।)


pp. 4-5: the Wikipedia interface / navigation

[this two-page spread is a large article screenshot, with callouts highlighting important elements of the interface]

विकिपीडिया-जालस्य पृष्ठानि दृश्यन्ताम्

यदा त्वम् आरम्भं करोषि, तदा आवश्यकम् अस्ति यद्, त्वं विकिपीडिया-जालस्य प्रारूपं जानीयात्। त्वञ्च ज्ञातुं शक्नुयात् यद्, विकिपीडिया-जाले एतस्मात् पृष्ठाद् अन्यं पृष्ठं प्रति कथं गन्तुं शक्नुमः इति।

निर्वाचिता सामग्री

अत्र त्वं विकिपीडिया-जालस्य उत्तमं, योग्यं च कार्यं द्रष्टुं शक्नोषि : लेखः, चित्रम् उत अन्यसामग्री अत्र भवन्ति, या उत्तमतमा मन्यते।

साहाय्यम्

कानिचन साहाय्य-पृष्ठानि सन्ति, यथा एषः लेखोऽपि विकिपीडिया-जालस्य सदस्यैः लिखितः।

समुदायप्रवेशद्वारम्

"समुदायप्रवेशद्वारम्" इत्यनेन सम्पूर्णे विकिपीडिया-जाले जायमानानां गतिविधीनां विषये त्वम् अवगतो भवसि। यथा वार्ताः, सहभागिता, नीतिचर्चा इत्यादि।

उपकरणानि

एतस्मिन् विभागे उपयोगीनि उपकरणानि सन्ति, यानि एतस्य पृष्ठस्य विषये, तस्य इतिहासस्य विषये च अधिकां सूचनां प्रदास्यन्ति।

भाषाः

२८० &mdash तः अधिकासु अन्यभाषासु विकिपीडिया-जालस्य &mdash संस्करणानि सन्ति; तेषु समानेषु विषयेषु लेखाः उपलब्धाः सन्ति।

भाषाविकल्पाः

विकल्पसूच्याः भाषां परिवर्तितुं, कीलफलकस्य (keyboard) प्रारूपस्य चयनं कर्तुञ्च एते विकल्पाः सुविधां यच्छन्ति।

सम्भाषणम्

प्रत्येकेन लेखेन सह एकं "सम्भाषण"पृष्ठम् अपि संलग्नं भवति, परिवर्तनस्य विषये चर्चां कर्तुम्, अन्येभ्यः सम्पादकेभ्यः सहायतां प्राप्तुं च सम्पादकः तस्मिन् पृष्ठे परामर्शं, सन्देशं च लेखितुं शक्नोति।

सम्पादनम्

अनेके सम्पादकाः सम्पादनम्-पिञ्चं प्रति ध्यानमेव न यच्छन्ति, परन्तु सः विकिपीडिया-जालस्य सर्वाधिकः महत्त्वपूर्णः भागः वर्तते। सम्पूर्णस्य पृष्ठस्य सम्पादनं कर्तुं सम्पादनम् इति पिञ्जं नुदत अथवा निश्चितस्य विभागस्य सम्पादनं कर्तुं विभागस्य समीपे विद्यमानं सम्पादनम्-पिञ्जं नुदत।

इतिहासः दृश्यताम्

विकिपीडिया-जालस्य निर्माणाद् आरभ्य अद्यावधौ प्रत्येकानि योगदानानि लेखस्य इतिहासे सुरक्षितानि सन्ति। केन किं परिवर्तनं कृतमिति, भिन्नानाम् अवतरणानां तुलनां कृत्वा परिवर्तनञ्च द्रष्टुं शक्नुयात।

सदस्यता प्राप्यताम्

यदि एतावता त्वं सदस्यतां न प्राप्तवान्, तर्हि सदस्यता प्राप्यताम्। तेन स्वयोगदानं द्रष्टुं प्रभविष्यतसि, स्वस्य व्यक्तिगतं सदस्यपृष्ठं निर्मातुं शक्ष्यसि, कस्यचिद् अन्यस्य सन्देशं प्राप्तुं प्रत्युत्तरं च दातुं शक्ष्यसि।

अन्विष्यताम्

नामानुसारम् अन्वेषणं कुरु अथवा स्वस्य अन्वेषणस्य नियमनुसारं पृष्ठानाम् अन्वेषणं कुरु। निश्चितं पृष्ठं प्राप्तुं लघुमार्गम् (यथा - "WP:HELP") अपि द्रष्टुं शक्नोषि। एतस्यां विवरणिकायां वयं पौनःपुन्येन लघुमार्गम् उल्लेखयिष्यामः, तेषु उपयोगी एषः अपि | "लघुमार्गः" WP:HELP

p. 6-7: Contributors / ways of contributing /why to contribute

[This page is intended as a visual representation of the variety of ways different people contribute, why they contribute, and the diversity of contributors]

विकिपीडिया-जालस्य सदस्याः किं कुर्वन्ति?

स्वयंसेवकाः एकाधिकेभ्यः मार्गेभ्यः योगदानं कुर्वन्ति। विकिपीडिया-जालं निर्मातुं ते किं स्वीकुर्वन्ति इति अत्र उदाहरणमाध्यमेन प्रदर्शितम् अस्ति।

नूतनपाठः, सन्दर्भः च योज्यताम्

नवागन्तुकानां सदस्यानां स्वागतं कुरुत, तेषां पश्नानाम् उत्तराणि अपि ददत।

नूतनान् लेखान्, नूतनपरिवर्तनानि च परीक्षत

विकिपीडिया-जालस्य नीतिविषये चर्चां, मतभेदानां समाधानाय साहाय्यं च कुरुत

तादृशस्य मुक्तस्रोतोयुक्तस्य तन्त्रांशस्य (software) विकासं कुरुत, यः विकिपीडिया-जालं चालयितुं शक्नुयात्

चित्राणि आरोप्यन्तां, चित्रैः लेखस्य पाठ्यः बोध्यताम्

Copy edit articles

विद्यार्थिनः विकिपीडिया-जालं पठितुं प्रेरयत अथवा विद्यार्थिसम्पादकान् विकिपीडिया-शैक्षणिक-कार्यक्रमस्य अन्तर्गततया विकिपीडिया-जालस्य मूलभूतान् सिद्धान्तान् ज्ञातुं साहाय्यं कुरुत।

लेखानां समीक्षां कुरु, परिष्काराय परामर्शं च दद।

विकिपीडिया-जाले सम्पादनं किमर्थम् ?

यदाऽहं बालकः आसं, तदा अहं नेपालस्य संस्कृतिं, भव्येतिहासस्य विषयान् च ज्ञातुम् इच्छामि स्म, परन्तु स्वमातृभाषायाम् — विकिपीडिया-जालं तत् सम्भवम् अकरोत्।

यदा मया विकिपीडिया-जाले किञ्चिद् अन्वेषणं कृतं, तदा अहं किमपि न प्राप्तवान्, तत्पश्चात् अहं निश्चयम् अकरवं यत्, अहमेव तान् लेखान् रचयिष्यामीति। एतावता १८,००० पाठकैः मे लेखाः पठिताः। केचन तेषु स्वज्ञानं, स्रोतः चापि अयोजयन्।

अहं विकिपीडिया-जाले नाशात्मकतायाः विरुद्धं युद्धं कुर्वन् आङ्ग्लभाषां वक्तुं शक्तवान्।


p. 8: Preparing to edit / content rules

सम्पादनाय सज्जो/सज्जा भव

कोऽपि विकिपीडिया-सम्पादनं कर्तुं शक्नोति, परन्तु तत्र केचन मूलभूताः नियमाः सन्ति। सम्पादनस्य आरम्भकाले सर्वाधिकेषु महत्त्वपूर्णेषु नियमेषु एकः एवम् अस्ति :

तटस्थः दृष्टिकोणः

विकिपीडिया-जाले यत्किमपि लिख्यते, तत् तटस्थदृष्टिकोणेन एव लेखनीयम्। लेखः न कस्यापि पक्षधरः भवेत्, परन्तु विषयस्य विवरणं निश्चतं, पक्षपातेन विहीनं भवेत्। अर्थात्, विश्वसनीये स्रोतसि प्रकाशिते विषये सर्वेऽपि महत्त्वपूर्णाः दृष्टिकोणाः लिखनीयाः। तर्क-वितर्कः (विवादः), अधिवादः च विकिपीडिया-जाले न भवेत्।

मूलशोधकार्यं न

मूलशोधकार्यं प्रकाशयितुं विकिपीडिया-जालम् उपयुक्तं स्थानं नास्ति। किन्तु, कोऽपि विषयः विश्वसनीये स्रोतसि केनचित् अन्येन प्रकाशितः स्यात्, तस्य सारभूतं त्वं लेखितुं शक्नोषि। लेखस्य पाठ्ये नूतनं विश्लेषणं, व्यक्तिगतं स्रोतः यत् कथयति, तत् व्यापक-सार-पर्यन्तं प्रापयितुं प्रकाशितानां सामग्रीणां संश्लेषणं (synthesize) नावश्यकम्।

प्रतिकृत्यधिकारः, साहित्यिकं चौर्यञ्च

युष्माकं सर्वं योगदानं स्वतन्त्र-प्रतिकृति-अधिकारस्य अन्तर्गततया भवति, अतः लेखः कस्यचिदेकस्य सम्पादकस्य न भवति। इत्थं युष्माकं सर्वाणि योगदानानि सम्पादनयोग्यानि, पुनर्वितरणयोग्यानि च भविष्यन्ति। कानिचन सङ्क्षिप्तोद्धरणि त्यक्त्वा प्रतिकृति-अधिकारात् सुरक्षितं पाठ्यम् अथवा सामग्रीं विकिपीडिया-जाले स्थापयितुं न शक्यते। यतो हि साक्षात् प्रतिकृतिः अथवा अन्यद्वारा कृतायाः टीकायाः साक्षात् स्वीकारः इत्यादीनां परिमार्जनं स्वयंसेवकानां महान्तं समयं स्वीकरोति। अतः अत्यावश्यकम् अस्ति यद्, यूष्माभिः लिखतः पाठ्यः युष्माकं शब्देषु एव स्यात्। (सार्वजनीकात् (Public domain), प्रतिकृति-अधिकाराच्च मुक्तां सामग्रीं योग्यदायित्वेन सह विकिपीडिया-जाले प्रस्थापयितुं शक्यते)

विश्वसनीयं स्रोतः

विकिपीडिया-जाले स्थापिता सूचना विश्वसनीयस्य प्रकाशितस्रोतसः आधारेण सत्यापनाय योग्या स्यात्। विश्वकोशे स्थापितायाः सूचनायाः सकाशम् उद्धरणम् अपि प्रस्थापनीयं, येन कोऽपि स्वयमेव तस्य उद्धरणस्य परीक्षणं कर्तुं शक्नुयात्। विकिपीडिया-पाठ्यस्य तथ्यं सत्यापनाय प्रतिष्ठितं तृतीय-पक्ष-स्रोतः अत्यधिक-महत्त्वपूर्ण-स्रोतत्वेन परिगण्यते। यथा, अकादमी-द्वारा प्रकाशितं पुस्तकं, विशेषज्ञैः समीक्षितं सामयिकम्, अन्ताराष्ट्रियं समाचारपत्रम्। यत् स्रोतः विभिन्नान् दृष्टिकोणान् प्रदर्शयति, तस्य स्रोतसः उपयोगः युष्माभिः करणीयः। कञ्चित् एकम् अभ्यासम् उत निश्चितं कार्यम् आधारीकृत्य न लेखनीयम्। उल्लेखनीये विषये उपलब्धानि सर्वोत्तमानि, अत्यधिकविश्वसनीयानि स्रोतांसि अन्वेष्टुं प्रयासं कुरुत।

हितानां सङ्घर्षः

यदि कस्मिंश्चिद् विषये हितानां सङ्घर्षः अस्ति, यथा नियोक्ता अथवा संस्था, यत्र त्वं कार्यं कुर्वन्नसि, तर्हि त्वया तस्य लेखस्य सम्पादनम् अवगणनीयम्।

अस्माभिः एताः नीतयः, सिद्धान्ताः च अनेकेषु वर्षेषु सज्जीकृताः, अतः अस्माकं विश्वासः अस्ति यत्, विकिपीडिया-जालं यावच्छक्यम् आसीत्, तावद् विश्वसनीयम्, उपयोगि चास्तीति।

P. 9 Encyclopedic Writing Style

ज्ञानकोशस्य शैली का?

यदा विकिपीडिया-जाले पाठ्यं स्थापयामः, तदा विश्वकोशे लेखनस्य पद्धतिः, औपचारिकः स्वरश्च अत्यन्तं महत्त्वपूर्णं स्थानम् आवहते। निबन्धलेखनं, विवादपूर्णम् उत मतोपस्थापनम् अलिखित्वा विकिपीडिया-जालस्य लेखेषु स्पष्टवादि, तथ्य-स्थापन-शैल्याम् एव लेखनं करणीयम्। विश्वकोशस्य लेखनपद्धत्यै अत्र करणीयम्, अकरणीयम् उदाहरणमाध्यमैः उपस्थाप्यते।

अनुचितम्

ब्रिटानिका-कोशस्य, विश्वकोशस्य च भविष्यम्

{{{2}}}

अकरणीयम्

निबन्धवत् लेखम् अथवा विभागं मा रचयत।

स्वस्य लेखस्य संरचना तर्करूपे न कुरुत।

"चातुर्यपूर्णानां शब्दानां" प्रयोगः न भवेत् (यथा, "अधिकतराः विशेषज्ञाः स्वीकुर्वन्ति" अथवा "केचन वदन्ति")

सम्भाषणस्तरस्य भाषाम् अथवा मिश्रभाषां मा लिखत।

"मयूरपद्धतेः" प्रयोगः मास्तु। (यथा, "श्रेष्ठः", "असाधारणम्", अथवा "निर्भयः")

व्यक्तिगतान् मतान् लेखे मा सम्मिलयत।

जटिलभाषायाः, वाक्यानां च प्रयोगः मास्तु।
उचितम्

१९९० तमस्य दशकस्य आरम्भादेव "ब्रटिनिका"-कोशः अङ्कीय(digital)सूचना-स्रोतोभ्यः आह्वाहनं प्रापन् आसीत्। "ब्रिटिनिका"-कोशः विज्ञानं, यान्त्रिकं, राजनीतिः, आधुनिकेतिहासः इत्यादिषु क्षेत्रेषु जायामानेषु शीघ्रपरिवर्तनेषु नवीनतमः भवितुम् अविरतं सङ्घर्षं कृतवान्। तस्य पूर्वसम्पादकः वाल्टर् यस्ट्-द्वारा एतस्याः महत्याः समस्यायाः पद्धत्यनुगुणं विश्लेषणं जातम्।[1] यद्यपि "ब्रिटानिका"-कोशः अद्य माध्यमसमुच्चये (multimedia), अन्तर्जाले च उभयत्र उपलब्धः वर्तते, तथापि तस्य प्राधान्यताम् अन्य-संयुक्त(online)-विश्वकोशेभ्यः आह्वाहनं प्राप्यते। यथा विकिपीडिया।[2]

करणीयम्

सामान्यभाषायाः उपयोगः

सङ्क्षेपः कुरु

तथ्यात्मिकां याच्ञां समर्थयितुम् उद्धरणस्रोतः स्थाप्यताम्

जनेभ्यः विशिष्टः दृष्टिकोणः, ये तं धारणं कर्तुं शक्नुयुः

यावता विशिष्टात् स्रोतसः उद्धृतं न लभेध्वं, तावता निष्कर्षपर्यन्तं मा गच्छत।

p. 10: VisualEditor / structure of an article

[This page and the following page show edit mode for the same article in VisualEditor and wikitext, respectively. The VisualEditor side focuses on the structure of a typical article, while the wikitext side shows the wikicode syntax for typical page elements.

यथादृश्यसम्पादिकया सम्पादनम्

यथादृश्यसम्पादिकायां युष्माभिः यानि परिवर्तनानि करिष्यन्ते, तानि युष्मान् परिवर्तनावस्थायामेव प्रदर्शयति। अतः यूयं पाठ्ये एव ध्यानं केन्द्रीकर्तुं शक्नुयात। यं विभागं यूयं सम्पादयितुम् इच्छथ, तस्मिन् केवलं नुत्त्वा (click) सम्पादनम् आरभत।

सम्पादनसाधनशलाका (toolbar)

प्रारूपणम्, उद्धरणं, चित्रं, विशिष्टपृष्ठम् इत्येतानि संसाधनसदृशानि फलकानि (यथा अधिकतराणां पृष्ठानाम् आरम्भे सारमञ्जूषा)। दृश्यसम्पादिकायाः सम्पादन-साधन-शलाका तानि फलकानि लेखे योजयितुम् अनुमतिं ददाति। यदा यूयं सम्पादनं पूर्णीकुरुत, तदा "परिवर्तनानि रक्ष्यन्ताम्" इति कुञ्जीं नुदत।

प्रस्तावना

प्रप्रथमं वाक्यं विषयस्य व्याख्यां यच्छति, प्रस्तावना च लेखस्य मुख्यबिन्दूनां सारं निबद्ध्नाति। एषः एकमात्रं विभागः उपशीर्षकेण विना भवति।

चित्राणि

प्रतिकृति-अधिकारमुक्त-चित्राणि, अन्य-माध्यम-सञ्चिकाः च विकिमीडिया-सार्वजनिकात् (commons) स्वीकृत्य लेखेषु प्रस्थापयितुं शक्नुयात।

सन्दर्भाः

प्रत्येकस्मिन् विभागे यत्र सूचनाः सन्ति, तत्र लेखे स्थिताः सन्दर्भाः प्रदर्श्यन्ते। सन्दर्भाणां विवरणं पादटिप्पण्याः स्वरूपे लेखस्य अन्ते दृश्यते।

फलकानि

पुनरुपयोगी भागः इत्युक्ते फलकानि, यानि सामान्यपद्धत्यां सूचनां प्रारूपबद्धां कर्तुम् उपयोगीनि सन्ति। फलकानि अन्यवस्तूनि अपि योजयन्ति। यथा ध्वजः। ध्वजः पाठकान् लेखे स्थितां कामपि समस्यां प्रति सचेतसं करोति।

लेखस्य अङ्गानि

शीर्षकं, कानिचिद् उपशीर्षकाणि - लेखं विभिन्नेषु विभागेषु विभजन्ति, तानि च पाठ्यसारणीं निर्मातुम् उपयोगीनि सन्ति। सामान्यतः प्रत्येकं विभागः लेखस्य महत्त्वपूर्णं पक्षम् उपस्थापयति, येन पाठकाः यां सूचनाम् इच्छन्ति, तासु साक्षात् प्राप्तुं शक्नुवन्ति।

परिशिष्टं, पादटिप्पणी च

मुख्यलेखस्य अङ्गपश्चाद् अतिरिक्ताभिः सूचनाभिः युक्ताः विभागाः भवन्ति। यथा - सम्बद्धाः विकिपीडिया-लेखाः ("सम्बद्धाः लेखाः", "इमान्यपि दृश्यन्ताम्"), स्रोतसि उपयुक्तेन विवरणेन पादटिप्पणी ("सन्दर्भः", "उद्धरणम्"), अन्यच्च भिन्नजालस्थानं ("बाह्यसम्पर्कतन्तुः") च। तेन पाठकाः अधिकां सूचनां प्राप्तुं शक्नुवन्ति।

p. 11: Wiki markup

[This page consists of a simplified and excerpted version of the wiki markup for the same article as on the facing page. Most of the content is blurred out, but the example elements of markup are not. Callouts explain the most import markup syntax.]

विकि-व्यञ्जकेन (markup) सह लेखनम्

विकि-व्यञ्जकं (markup) विकिपीडिया-जालस्य लेखान् सम्पादयितुं वास्तविकं स्वरूपम् अस्ति (तथा च केषुचित् गवेषकेषु (browsers) एषः एकमात्रं प्रकारः उपलब्धः भवेत्)। एकवारं यूयं विकि-व्यञ्जकं जानीयात पश्चात् तत् पाठ्यस्योपरि, पृष्ठस्य दृश्ये च यथार्थरूपेण नियन्त्रणं प्रददाति। निम्ने चित्रे आधारभूतं विकि-व्यञ्जकम् उदाहरणेन सह प्रदत्तम्। यथादृश्यसम्पादिकायाः अवलोकनं कुर्वन्तः तत्र स्थितेषु साधनेषु कति साधनानि यूयं परिचेतुं शक्नुयात इति पश्यत।

चित्रम्

चित्रशीर्षकस्य उभयतः द्वौ चतुष्कोणौ कोष्ठकौ कृत्वा विकिमीडिया-सार्वजनिकात् चित्रं स्थापयितुं शक्यते। चित्रम् ईप्सिते प्रारूपे प्रदर्शयितुं पाईप्(|)चिह्नं विभिन्नेषु प्राचलेषु नियन्त्रणं प्रददाति। सर्वसामान्यः उपयोगः द्वाभ्यां पाईप्-चिह्नाभ्यां सह भवति : लघ्वाकृतौ (thumbnail) चित्रं द्रष्टुं "thumb"-शब्दस्य प्रयोगो भवति, चित्रस्य अधोभागे तस्य विवरणं दृश्यते च।

[[File:Example.jpg|thumb|caption]]

स्थूलः

पाठ्यात् पूर्वं, पश्चाच्च त्रीणि एकाकिनः अवतरणचिह्नानि (') प्रस्थापयामश्चेत् तत् पाठ्यं स्थूलं भवति। सामान्यतः प्रप्रथमे वाक्ये लेखस्य विषयः स्थूलाक्षरैः भवति।

'''स्थूलपाठ्यम्'''

सन्दर्भः

आरम्भिकम्, अन्तिमं च रेफ्-अङ्कनं (ref tags) स्रोतः सन्दर्भयितुं उपयोगी अस्ति। रेफ्-अङ्कनस्य स्थाने शीर्षाक्षरे (superscript) स्वयं क्रमाङ्किताः अङ्काः दरीदृश्यन्ते, सन्दर्भविवरणञ्च पादटिप्पणीरूपेण सन्दर्भविभागे दृश्यते।

<ref> सन्दर्भविवरणम् </ref>

आन्तरिकपरिसन्धिः

कञ्चन लेखं प्रति परिसन्धिं (link) कर्तुं तस्य नाम्नः अग्रे, पृष्ठे च चतुष्कोणयोः कोष्ठकयोः योजनस्य पद्धतिः अस्ति। पाईप्-चिह्नं योजयित्वा अन्तिमचतुष्कोणकोष्ठकात् पूर्वम् अन्यं पाठ्याक्षरबन्धं (string) योजनेन परिसन्धेः पाठ्यं परिवर्तते।

[[लेखस्य नाम|पाठ्यम्]]

तिर्यक्

आरम्भे, अन्ते च द्वयोः एकाकिनोः अवतरणचिह्नयोः (') योजनं पाठ्यखण्डं तिर्यक् करोति।

''तिर्यक् पाठ्यम्''

शीर्षकम्

द्वयोः समकक्षचिह्नयोः (=) युगलं काञ्चित् पङ्क्तिं शीर्षकरूपेण परिवर्तयति। त्रीणि समकक्षचिह्नानि उपशीर्षकं निर्मान्ति।

==शीर्षकम्==

फलकम्

फलकाय द्वौ धनुर्कोष्ठकौ (braces) उपयोगिनौ स्तः। तत् फलकं पुनरुपयोगिनः पृष्ठस्य अवयवः अस्ति, यद् अनेकान् उद्देशान् पूर्णीकरोति। आरम्भिकात् धनुर्कोष्ठकाद् अनन्तरं प्रप्रथमं पाठ्यं फलकस्य नाम भवति। पाईप्-चिह्नं प्राचलानि विभाजति, यद् अतिरिक्तः निवेषः इति उच्यते। तस्य अतिरिक्तेन निवेषेन फलकस्य कार्यपद्धतिः अथवा तस्य दृश्यं परिवर्तयितुं शक्यते।

{{फलकस्य नाम|प्राचलम्}}

सन्दर्भाः

पादटिप्पणी यत्र दृश्यते, तत्र सन्दर्भ-अङ्कनम् (tag) अथवा तत्समानानि फलकानि दरीदृश्यन्ते — सामान्यतः "टिप्पणी", "सन्दर्भः" इत्येतयोः विभागयोः।

<references />

बाह्यपरिसन्धिः

एकाकी आरम्भिकः चतुष्कोणकोष्ठकः, अन्तिमः चतुष्कोणकोष्ठकश्च सामान्यं परिसन्धिं (link) रचयति। उभयोः चतुष्कोणकोष्ठकयोः मध्ये सार्वसङ्केतः (URL), रिक्तं स्थानं (space), नामपाठ्यञ्च भवति। सामान्यतः तस्य उपयोगः केवलं पादटिप्पण्याम् अथवा "बाह्यसम्पर्कतन्तु"-विभागे एव भवति।

[http://www.example.com पाठ्यम्]

वर्गः

लेखस्य अन्ते चतुष्कोणस्य युगलकोष्ठकस्य मध्ये एकः अक्षरबन्धः (String), यः वर्गः: शब्दात् आरभते, सः लेखे निश्चितं वर्गं योजयति। वर्गाः विकिपीडिया-जालस्य लेखान् सम्बद्धसमूहेषु व्यवस्थीकुर्वन्ति।

[[वर्गः:विषयसर्वस्वम्]]

विकि-व्यञ्जकस्य (markup) विषये विस्तृत साहाय्यार्थं १९ पृष्ठे दत्तां त्वरितसन्दर्भिकाम् अथवा सन्दर्भपृष्ठं पश्यत| "लघुमार्गः" WP:MARKUP

pp. 12-13: Adding content, step by step

क्रमशः पाठ्ययोजनम्

एतानि चित्राणि प्रदर्शयन्ति यत्, कथं केनचित् सम्पादकेन "भारतमाता" लेखे नवीना सूचना योजिता इति।

सम्पादनात् पूर्वं लेखस्थितिः...

...तथा च सम्पादनोत्तरस्य लेखस्थितिः।

सम्पादकेन किं योजितं, कस्य व्यञ्जकस्य (markup) उपयोगः कृतश्च इत्यादि एतच्चित्रं प्रदर्शयति। एतेषां सोपानानाम् अनुसरणं कृत्वा यूयम् अपि विकिपीडिया-जालस्य लेखे पाठ्यं योजयितुं शक्नुयात।

सोपानं १: यस्मिन् विषये त्वम् अधिकं योजयितुम् इच्छसि, तस्य विषयस्य चयनं कुरु।

सोपानं २: यत् श्रेष्ठतररूपेण विकिपीडिया-जालस्य वर्तमानलेखस्य विषये निरूपणं करोति, तस्य विश्वसनीयस्रोतसः अन्वेषणं कुरु।

सोपानं ३: इतः मनोरञ्जनम् आरभते। सम्पादन-कुञ्जीं नुदत!

सोपानं ४: या सूचना उपस्थिता नास्ति, तां योजयत। उपलब्धस्य स्रोतसः उपयोगं कृत्वा यूयं यां सूचनां योजयितुम् इच्छथ, तस्याः सारांशं स्वस्य शब्देषु लिखत।

सोपानं ५: युष्माभिः योजितस्य नवीनपाठ्यस्य अन्ते उद्धरणं/सन्दर्भं योजयत। विकि-व्यञ्जकम् (markup) अथवा यथादृश्यसम्पादिका उभयोः स्थितायां सम्पादन-साधन-शलाकायां (toolbar) — 'उद्धरणम्'-चिह्ने नुत्त्वा (click) यूयं स्वस्य स्रोतः सन्दर्भितम्/उद्धृतं कर्तुं शक्नुयात।

सोपानं ६: स्वस्य सम्पादनस्य सङ्क्षिप्तं विवरणं 'सारांशः'-विभागे योज्यताम्।

(यथादृश्यसम्पादिकायां 'परिवर्तनानि रक्ष्यन्ताम्' इत्यस्मिन् नुत्त्वा सारांशविभागं सम्पादयितुं शक्नुयात।) युष्माभिः सारांशविभागे लिखितः सम्पादनसारांशः युष्माकं सम्पादनस्य विषये ज्ञातुं अन्यसम्पादकेभ्यः सहायकः भवति।

सोपानं ७: अधुना युष्माकं परिवर्तनानि सुरक्षयितुम् अवसरः सम्प्राप्तः। 'परिवर्तनानि रक्ष्यन्ताम्' नुदितम् उत न इत्यस्य पुष्टिं कुरुत।

यदि युष्माभिः काचित् त्रुटिः कृता, तर्हि न चिन्तायाः विषयः। यूयं सर्वदा अधिकं परिवर्तनं कर्तुं प्रभवथ अथवा लेखस्य पुरातनं संस्करणं पुनस्सथापयितुं शक्नुथ।

p. 14: Interacting / user pages / user talk

सदस्यपृष्ठं, सम्भाषणपृष्ठञ्च

विकिपीडिया-जाले लेखान् विहाय अन्यप्रकाराणि पृष्ठानि अपि भवन्ति। त्वं यदि लेखनम् आरभसे, तर्हि त्वं कदाचित् स्वस्य सदस्यपृष्ठम् अपि निर्मातुम् इच्छेः, येन अन्ये सदस्याः तव विषये ज्ञातुं शक्नुयुः।

(यदि त्वं प्रविष्टः, तर्हि) उपरि दक्षिणतः स्वस्य सदस्यनाम द्रक्ष्यसि, यस्मिन् नोदनेन त्वं स्वस्य सदस्यपृष्ठं प्राप्तुं शक्नोषि। परिसन्धिकृत् (linked) पृष्ठं यदि उपलब्धं नास्ति, तर्हि सः परिसन्धिः (link) रक्तवर्णीयः दर्शयिष्यते। यथा एतावता यदि त्वं स्वस्य सदस्यपृष्ठं न निर्मितवान्/वती, तर्हि तत् पृष्ठं रक्तवर्णीयं दरीदृश्यते।

'पृष्ठं रक्ष्यताम्' कुञ्जीं नुत्त्वा यत्किमपि रक्तवर्णीयं पृष्ठं रिक्तपृष्ठत्वेन रचयितुं शक्यते। तव विषये किमपि विवरणं लेखितुं सदस्यपृष्ठं भवति। अत्र अन्यसदस्यान् अवगतान् कर्तुं शक्नुयात यत्, त्वं कः, तव रुचिक्षेत्रं किञ्च। स्वानुकूलतायाः अनुसारम् अधिकाधिकम् अल्पतमं वा स्वविवरणं लेखितुं शक्नुयात।

यदा त्वं पृष्ठं रक्षिष्यति, तदा ते रक्तवर्णीयस्य परिसन्धेः रङ्गः नीलः भवति!

तव पार्श्वे सम्भाषणपृष्ठम् अपि अस्ति, यत्र कोऽपि सदस्यः तुभ्यं सन्देशं दातुं शक्नोति। यदि त्वं केनचित् सदस्येन सह सम्भाषणं कर्तुम् इच्छसि, तर्हि त्वं तस्य सम्भाषणपृष्ठे सन्देशं लेखितुं शक्नोषि।

त्वया सम्भाषणपृष्ठे स्वसन्देशः हस्ताक्षरयुक्तः लेखनीयः; सम्पादन-साधन-शलाकायां 'हस्ताक्षरम्' नोदनेन चत्वारि टिल्ड-चिह्नानि ( ~ ~ ~ ~ ) प्रविष्टानि भविष्यन्ति। तानि विशिष्टानि विकि-व्यञ्जकानि (markup) सन्देशेन सह तव सदस्यनाम, दिनाङ्कं, समयञ्च योजषियन्ति।

सम्पादन-साधन-शलाकायाम् एतच्चिह्नं हस्ताक्षराय वर्तते।


p. 15: article talk / etiquette

समुदायेन सह संवादः

प्रत्येकस्य पृष्ठस्य एकं सम्भाषणपृष्ठमपि भवति। परामर्शं दातुं, नवीनं स्रोतः स्थापयितुं, समस्यायाः उपस्थापनाय, (यस्य कृते अन्यसम्पादकाः असहमताः सन्ति, तादृशस्य) परिवर्तनस्य विषये चर्चां कर्तुञ्च तेषां सम्भाषणपृष्ठानाम् उपयोगः शक्यते।

दृश्यतां, जागरूकतासन्देशः! यदा कोऽपि तव उल्लेखं करोति, तव सम्पादनाय कृतज्ञतां पाठयति, तुभ्यं सन्देशं यच्छति च तदा त्वम् अत्र जागरूकतासन्देशं द्रक्ष्यसि।

विकिपीडिया-जाले समुदायसम्भाषणाय काचित् महत्त्वपूर्णा मार्गदर्शिका अस्ति यद्, आदरणपूर्णाः, सभ्याः च भवन्ति इति। यद्यपि त्वं कस्मिंश्चित् विषये असहमतः असि, तथापि त्वया अन्यसम्पादकान् प्रति सद्भावपूर्णः व्यवहारः करणीयः। विकिपीडिया-जालं श्रेष्ठतरं कर्तुं यल्लक्ष्यं तव अस्ति - पुरतः स्थितस्यापि तव सदृशं लक्ष्यं वर्तते। अतः तस्य व्यक्तिविशेषस्य सम्पादकस्य विषये विचारम् अकृत्वा पाठ्यस्योपि चर्चां कर्तुं ध्यानं दद।

p. 16 mobile editing

जङ्गमदूरवाण्या सम्पादनम्

परम्परागत-कार्यपीठिका-माध्यमे (desktop interface) अतिरिक्तरूपेण विकिपीडिया-जालस्य जङ्गमदूरवाणीस्रोतोपङ्क्तेः (streamlined) संस्करणम् उपलब्धम् अस्ति, यस्मिन् यूयं पठनं, सम्पादनं च कर्तुं शक्नुयात। स्वस्य जङ्गमदूरवाण्या अथवा चित्रणफलकेन (tablet) विकिपीडिया-जालं गत्वा प्रवेशं कुरुत।

आवलिः दृश्यतां, गोप्यतां च विकल्पः

लेखः सम्पाद्यताम्

चित्राणि उपारोप्यन्तां, योज्यन्तां च

स्वस्य ध्यानसूचौ लेखाः योज्यन्ताम्

स्वस्य सूचनाः दृश्यन्ताम्

विकिपीडिया-जाले सम्पादनं किमर्थम् ?

एतत् ज्ञात्वा अहं हर्षितोऽस्मि यत्, अहं स्वयं कस्यचिद् विशिष्टस्य कृते योगदानं कुर्वन्नस्मि इति।

एकत्र यूष्माकं सम्मुखं समृद्धाः, प्रभावशालिन्यः संस्थाः सन्ति। ताः संस्थाः जालस्थानम् उपभोगस्य माध्यमं कर्तुम् इच्छन्ति : संवादात्मकं दूरदर्शनं क्रयमहापणेषु (shopping mall) प्राप्यते। अपरत्र युष्माकं पार्श्वे तादृशाः जनाः सन्ति, ये अन्तर्जालं विश्व-परिवर्तकत्वेन पश्यन्ति।

विकिपीडिया-जालं सर्वे पठन्ति। यदि जनाः किमपि द्रष्टुम् इच्छन्ति, तर्हि ते सर्वप्रथमं विकिपिडीया-जालं पश्यन्ति। अहं जाने यत्, अहं स्वल्पं साहाय्यम् अकरवम् - अहं जाने यत्, कदाचित् इतोऽपि अधिकं कर्तुं शक्नोमि स्म इत्येषः सर्वोत्कृष्टः भावः वर्तते।


p. 17 more about English Wikipedia

[The idea is that this is a page with a pretty simple layout that can be rewritten for each language to highlight whatever is important for that version of Wikipedia that isn't already covered.)

संस्कृत-विकिपीडिया-जालस्य विषये अधिकं जानन्तु

(यद्यपि भाषासु बहु किमपि साम्यं भवति, तथापि) विकिपीडिया-जालस्य प्रत्येकं भाषायाः संस्करणं भिन्नं भवति। संस्कृत-विकिपीडिया-जाले, याः सूचनाः यूष्मभ्यम् उपयोगिन्यः भवितुम् अर्हन्ति, तासु काचित् विशिष्टा सूचना एवम् अस्ति।

स्वस्य प्रप्रथमस्य लेखस्य निर्माणम्

संस्कृत-विकिपीडिया-जाले नवीनस्य लेखस्य आरम्भकाले - निश्चितं कुरत यद् सः लेखः न अपाभवेत् - एतत् किञ्चित् कठिनं वर्तते। स्वस्य लेखं निर्मातुं मार्गदर्शिकां पश्यत| लघुमार्गः WP:FIRST

विकिपीडिया-प्रतीकचिह्नम्

"प्रतीकचिह्नम्" | लघुमार्गः WP:SIGNPOST किञ्चन साप्ताहिकं सामूहिकं वर्तमानपत्रं वर्तते, यत् विकिपीडिया-सम्बद्धान् समाचारान्, संशोधनानि, महत्त्वपूर्णान् संवादान्, नवीनं विशेषपाठ्यम् इत्यादि बहु किमपि प्रकाशयति। प्रतिसप्ताहं स्वस्य सम्भाषणपृष्ठे सन्देशं प्राप्तुं यूयम् अपि नामाङ्कनं कर्तुं शक्नुयात।

अमुक्तचित्रस्य उपारोपणम्

सामान्यतः केवलं प्रतिकृति-अधिकारमुक्तम् अथवा सार्वजनिकं चित्रमेव विकिपीडिया-जालस्य लेखेषु उपयोक्तुं शक्यते, तच्च चित्रं विकिमीडिया-सार्वजनिक-जाले (commons.wikimedia.org) उपारोपितम् अपि स्यात्। अमुक्त-सामग्री-नियमस्य | लघु पथ WP:NONFREE अन्तर्गततया काश्चन सीमिताः सामग्र्यः संस्कृत-विकिपीडिया-जाले मान्याः सन्ति। यथा कस्याश्चित् चित्रावल्याः (album) मुखपृष्ठम्। स्पष्टं विवरणं विना विकिपीडिया-जाले आरोपितम् अमुक्त-चित्रं अपाभविष्यति।

विकिपरियोजनाः

सम्पादकानां दलम् एव विकिपरियोजनात्वेन परिगण्यते। यदा ते विकिपीडिया-जाले सम्पादनं कुर्वन्ति, तदा तेषां रुचिः समाना भवति। वर्तमान-विकिपरियोजनाः | लघुमार्गः WP:WIKIPROJECT दृश्यन्ताम्

[विकिपरियोजना शब्दकोशस्य चित्रम्]

विकिपीडिया १.० मूल्याङ्कनम्

संस्कृत-विकिपीडिया-जाले विकिपरियोजनासु गुणवत्तायै क्रमाङ्काय, लेखस्य महत्तायै च काचित् प्रणालिः वर्तते, सा विकिपीडिया १.० मूल्याङ्कनम् | shortcut WP:ASSESS इति। अपूर्णलेखेभ्यः (केवलम् आरम्भिकाः लेखाः) आरभ्य गुणवत्तायाः परीक्षणं क्रमशः सी, बी, सुष्ठुलेखः, ए इत्यादीनां वर्गाणाम् अनन्तरं निर्वाचितलेखं यावत् भवति। बी-वर्गपर्यन्तं प्राप्य सुष्ठु लेखेभ्यः औपचारिकः पुनर्निरीक्षणक्रमाङ्कः भवति।

तान् क्रमाङ्कान् यूयं लेखस्य सम्भाषणपृष्ठस्य शीर्षे द्रष्टुं शक्नुयात। अधिकतरासु विकिपरियोजनासु सरणी-माध्यमेन प्रत्येकं लेखस्य क्रमाङ्कस्थितिः व्यवस्थिता भवति। कार्यं कर्तुं नवीनविषयाणां अन्वेषणाय सुलभः मार्गः अस्ति यद्, विकिपरियोजनायाम् अपूर्णलेखस्य (stubs), आरम्भिकलेखस्य च अन्वेषणम्।


p. 18: article quality / additional resources

विकिपीडिया-लेखस्य गुणवत्तायाः परीक्षणं भवति

विकिपीडिया-जालीयानां लेखानां गुणवत्तायां व्यापकरूपेण परिवर्तनं सततं चलति; अतः बहवः सुष्ठु लेखाः सन्ति, परन्तु विषयं प्रति गाम्भीर्यस्य, स्पष्टतायाः अभावे सति, पक्षपातपूर्णस्य पाठ्यस्य कारणेन, कालग्रस्तत्वाच्च अनेकेषां गणना न भवति। सामान्यरूपेण, उच्चगुणवत्तायुक्ते लेखे एतानि तत्त्वानि आवश्यकानि :

  • प्रस्तावनायां सरलतया सारांशः, विहङ्गावलोकनञ्च
  • स्पष्टं प्रारूपम्
  • आवृत्तेषु विषयेषु सन्तुलनम्
  • निष्पक्षपाठ्यम्
  • विश्वसनीयं स्रोतः


लेखस्य गुणवत्तायाः विषये "विकिपीडिया-मूल्याङ्कनम्" विवरणिकायाम् अतिरिक्ताः परामर्शिकाः सूचनाः उपलब्धाः सन्ति। (अधः दृश्यताम्)

अतिरिक्तानि संसाधनानि

""विकिपीडिया-मूल्याङ्कनम् : मूल्याङ्कनस्य अन्वेषणं कृत्वा लेखानां मूल्याङ्कनं करोति""

उच्चगुणवत्तायाः तत्त्वानि लेखेषु कथं विकसेयुः, निम्नगुणवत्तायुक्तानां लेखानां विषये कथं सङ्केतः प्राप्तव्यः इत्यादि सर्वम् एतस्यां मार्गदर्शिकायाम् उपलभ्यते।

http://education.wikimedia.org/evaluating

""सचित्रं विकिपीडिया : विकिमीडिया-सार्वजनिके सामग्र्याः योगदानाय मार्गदर्शिका""

विकिमीडिया-सार्वजनिकः माध्यमसमुच्चयः वर्तते, तस्मात् विकिपीडिया-जाले चित्राणाम् उपयोगविषये एतस्यां सहमार्गदर्शिकायां प्रदर्शितम् अस्ति। विकिमीडिया-सार्वजनिकम् इत्युक्ते किम्, सञ्चिकानाम् उपारोपणं कथं शक्यते, कथं सञ्चिकायाः उपयोगो भवति, प्रतिकृति-अधिकारमुक्तस्य (free licenses) विषये सामान्यज्ञानञ्च एतस्यां विवरणिकायां सङ्कलीकृतं वर्तते।

http://education.wikimedia.org/illustrating

प्रशिक्षकाय मूलभूतम् : शैक्षणिकसाधनत्वेन विकिपीडिया-जालस्य प्रयोगः कथम्?

पाठ्यक्रमस्य भागत्वेन विकिपीडिया-जाले योगदानं कर्तुं ये प्रशिक्षकाः विद्यार्थिनः प्रेरयन्ति, तेभ्यः एतस्यां विवरणिकायां सर्वोत्तमाः अभ्यासाः सन्ति।

http://education.wikimedia.org/instructorbasics

p. 19: wiki markup cheatsheet

विकि-व्यञ्जकस्य (markup) त्वरितसन्दर्भिका

यदा विकिपीडिया-लेखस्य संपादनं विकि-व्यञ्जकानां साहाय्येन अवसरः समुद्भवति, तदा पौनःपुन्येन आवश्यकानाम् उदाहरणानां सङ्कलनम् एतस्मिन् पत्रे वर्तते। अधिकायै सहायतायै पश्यत | लघुमार्गः H:MARKUP

विवरणम्

त्वया किं उट्टङ्कितम्

त्वया किं प्राप्तम्

तिर्यक्

तिर्यक्-पाठ्यम्

स्थूलः

स्थूलपाठ्यम्

विभागस्य शीर्षकम्

शीर्षकपाठ्यम्

अन्यविकि-पृष्ठेन सह योजनम् (आन्तिरिकपरिसन्धिः)

डेनिस डिडरोट


विभिन्नैः पाठ्यैः सह आन्तरिकपरिसन्धिः

अन्यजालस्थानैः सह परसन्धिः

लाईब्रेरी ऑफ् कॉंग्रेस जालस्थानम् जालस्थानम्

बिन्दुसूचिः

  • विकिपीडिया
  • विश्वकोशः

क्रमाङ्कसूचिः

  1. अ - अमृतसरः
  2. आ - आर्यभटः

विवरणसहितं चित्रम्

[[File:Example.jpg|thumb|Caption text]]

विवरणस्य पाठ्यम्

हस्ताक्षरं, समयमुद्रा च (सम्भाषणपृष्ठाय)

~~~~

सदस्यनाम (सम्भाषणम्) ०७:००, १५ अगस्त २०१४ (UTC)

उद्धरणं दातुम्

त्वया किं उट्टङ्कितम्

त्वया किं प्राप्तम्

उद्धरणं योज्यताम्

पृष्ठपाठ्यम्। <ref>[http://example.org Example.org], विवरणपाठ्यम्।</ref>

पृष्ठपाठ्यम्।[1]

उद्धरणस्य पादटीप्पणी दृश्यताम्

<references />

1. ^ Example.org, अधिकपाठ्यम्।


p. 20: back cover / glossary

सारांशः सम्पाद्यताम्

लेखं लेखितुं, सम्पादनस्य पृष्ठे स्थितम् उद्देश्यम् अवगन्तुं च विकिपीडिया-पृष्ठस्य एकं सम्पादनं सङ्क्षेपेण बोध्यते, यत् सम्पादकेभ्यः सहायकं स्यात्।

अधिकारमुक्तम्

A public copyright license that ensures the freedom to use and study a work, to make and redistribute copies of it, to make changes and improvements, and to distribute derivative works, by any person for any purpose. Wikipedia — and each individual contribution to it — uses the Creative Commons Attribution-ShareAlike license, which is a free license. See | shortcut WP:CC-BY-SA to learn more.

इतिहासः

विकिपीडिया-लेखस्य अभिलेखः "इतिहासः" कुञ्जीद्वारा द्रष्टुं शक्यते, यः सर्वाणि सम्पादनानि प्रदर्शयति। कयोश्चित् द्वयोः सम्पादनयोः तुलनां कृत्वा निश्चितं भेदं द्रष्टुं शक्नुमः ("भेदः" इति उच्यते)। अनेन पूर्वतनानि संस्करणानि पुनस्स्थापयितुं शक्नुमः।

व्यंजकम् (markup)

विकिपीडिया-जालस्य पृष्ठाय उचितं प्रारूपं दातुं केचन विशिष्टाः व्यञ्जककूटाः उपयोगिनः भवन्ति। व्यञ्जकस्य सामान्यज्ञानार्थं त्वरितसन्दर्भिकां (पृष्ठं, १९) पश्यत अथवा विस्तृतज्ञानाय अत्र गच्छत | लघुमार्गः H:MARKUP

अधिसूचना

विकिपीडिया-पृष्ठस्य शीर्षे तुभ्यं सन्देशः दृश्यते। यदि यूयं कमपि प्रत्युत्तरं दत्त्वा तं सूचयितुम् इच्छथ, तर्हि यूयम् उल्लेखाधिसूचनासन्देशस्य उपयोगं कर्तुं शक्नुथ। सम्भाषणपृष्ठे हस्तारक्षरेण सह तस्य सदस्यस्य सदस्यपृष्ठस्य परिसन्धेः उल्लेखेन अधिसूचनासन्देशं सः प्राप्स्यति।

प्राचलम्

पाईप्-चिह्नस्य (|) उपयोगेन द्वयोः पाठ्यांशयोः विभागः भवति, तेन पृष्ठस्य प्रारूपं नियन्त्रयितुं सहायता भवति। चित्रं, फलकं, अन्यविकि-व्यञ्जकम् इत्यादि सर्वं पाईप्-चिह्नेन नियन्त्रयितुं शक्नुमः।

अपूर्णलेखः

अपूर्णलेखे अथवा अविकसितलेखे विस्ताराय अत्यधिकाः अवसराः भवन्ति, तेषु अपूर्णलेखेषु सामग्रीयोजनं नवीनसम्पादकेभ्यः सम्पादनारम्भस्य एषः सरलः मार्गः अस्ति।

सम्भाषणपृष्ठम्

कस्यचित् लेखस्य, अन्यविकिपीडिया-पृष्ठानां च सम्भाषणपृष्ठं तादृशं स्थानमस्ति, यत्र यूयं पाठ्यस्य विषये अन्यसदस्यैः सह चर्चां कर्तुं शक्नुयात।

फलकानि

एकस्मिन् पृष्ठे अन्यस्य पृष्ठस्य पाठ्यं स्वतः स्थापयितुं सरलः मार्गः अस्ति। तस्य उपयोगाय निर्देशान् पठत | लघुमार्गः H:T

सदस्यनाम

प्रत्येकं सदस्यस्य एकं व्यक्तिगतपृष्ठं भवति, यत् "सदस्यः:" इत्यस्माद् आरभते, सदस्यनामोत्तरं पूर्णं भवति च। विकिपीडियन् स्वविषये विवरणं दत्त्वा, स्वस्य रुचिविषयान् उल्लिखित्वा, स्वेन लिखितानां लेखानाम्, आशास्पदलेखानां च आवलिं निर्मीय, अन्यसूचनाः दत्त्वा च तस्य सदस्यपृष्ठस्य उपयोगं कर्तुं शक्नोति।

विकिमीडिया-सार्वजनिकम्

विकिपीडिया-जालाय, अन्यविकिप्रकल्पेभ्यश्च एषः एकमात्रं माध्यमभण्डारः वर्तते, यस्मिन् यूयं प्रतिकृति-अधिकारमुक्तं चित्रं, मानचित्रं, चलच्चित्रं, अन्यमाध्यमसञ्चिकां च उपारोपयितुं शक्नुयात। तानि सर्वाणि माध्यमानि विकिपीडिया-लेखान् सचित्रं कर्तुम् उपयोगीनि भविष्यन्ति।

विकिपीडियन्

यः विकिपीडिया-जाले योगदानं करोति, तस्य कृते केचन समानार्थशब्दाः सन्ति। यथा - "योगदानकर्ता", "सदस्यः", "सम्पादकः", "समुदायसदस्यः"।

कानिचत् विशेषनिर्देशनयुक्तानि चित्राणि विहाय विकिमीडिया-सार्वजनिके सर्वाणि चित्राणि CC BY-SA अधिकारे अथवा सार्वजनिके अन्तर्भवन्ति। सर्वाणि चित्राणि रचनात्मक-सार्वजनिकस्य (Creative Commons) अन्तर्गततया Attribution-ShareAlike इत्यस्य ३.० संस्करणे अथवा आगामिसंस्करणेषु उपलब्धानि भवन्ति।

विकिमीडिया-संस्थानस्य, अन्यसंस्थानां सान्दर्भिकाः, चिह्नानि च रचनात्मक-सार्वजिनक-अधिकारे न अन्तर्भवन्ति। विकिमीडिया-संस्थानस्य काश्चित् सान्दर्भिकाः पञ्जीकृताः सन्ति, काश्चिच्च सान्दर्भिकाः पञ्जीकरणाय क्रमे सन्ति, तासाम् आवलिः एवम् अस्ति - विकिमीडिया-संस्थानं (फाउण्डेशन्), विकिपीडिया, विकिमीडिया-सार्वजनिकम्, मीडियाविकि, विकिकोशः, विकिपुस्तकम्, विकिडाटा, विकिसमाचारः, विकिसूक्तिः, विकिविद्यालयः, विकियात्रा, विकिजन्तु, मेटा-विकि च।

http://wikimediafoundation.org/wiki/Trademark_Policy. अत्र अस्माकं व्यवसायनीतिं दृष्ट्वा अधिकं विवरणं प्राप्यताम्।

legal@wikimedia.org अत्र वि-पत्रं कृत्वा अस्माकं व्यवसायनीतिविषये अथवा अधिकारनियमविषये प्रश्नं कर्तुं शक्नुयात।

डेविड पीटर्स-द्वारा रूपान्तरितं, एक्सब्रूक् (EXBROOK)

विकि-सम्पादकानां चित्राणि करेन सायरे, एडम नोवाक, विक्टर ग्रगेस् इत्येतैः कर्षितानि। CC BY-SA 3.0