विकिपीडिया-लेखानां गुणवत्तायाः मूल्याङ्कनं कुर्वती (पुस्तिका)/२०१६ संस्करणम्

From Outreach Wiki
Jump to navigation Jump to search
This page is a translated version of the page Evaluating Wikipedia article quality (Bookshelf)/2013 edition and the translation is 100% complete.

This is the second edition of the Evaluating Wikipedia article quality brochure (now titled Evaluating Wikipedia: Tracing the evolution and evaluating the quality of articles), from late 2013. The text underwent minor revision from the 2011 first edition, and the design was updated to match the other recent Wikimedia outreach brochures.

Text with special formatting (generally used to designate interface elements or Wikipedia-specific terminology) are marked in bold.

text

page 1 (cover)

सचित्रं विकिपीडिया

क्रमिकविकासस्य अन्वेषणं कृत्वा लेखानां मूल्याङ्कनं करोति

wikipedia.org

page 2

विकिपीडिया-जालम् इतिहासस्य बृहत्तमः विश्वकोषः वर्तते।

एतत् शताधिकासु भाषासु उपलब्धम् अस्ति। परम्परागतेभ्यः विश्वकोशेभ्यः भिन्नतया विकिपीडिया-सार्वजनिकस्य सम्पादनपद्धतेः उपयोगं करोति। कोऽपि साक्षात् लेखस्य सम्पादनं कृत्वा योगदानं कर्तुं शक्नोति। अर्थात्, गुणवत्तायाः दृष्ट्यां लेखस्य अवस्था भिन्ना भवेत्। उत्तमाधमेषु लेखेषु भेदज्ञानं भवादृशेभ्यः पाठकेभ्यः महत्त्वपूर्णम् अस्ति ।

विकिपीडिया इत्युक्ते किम् ?

विकिपीडिया-जालं साक्षात्कारादिवत् प्राथमिकस्रोतः नास्ति, न तु तत् कस्यापि शैक्षणिकसंस्थायाः प्रबन्धवत् अथवा समाचारकथावत् द्वितीयस्रोतः अस्ति। विकिपीडिया-जालं कश्चन विश्वकोशः वर्तते। प्राथमिकस्रोतसः, द्वितीयस्रोतसः च आधारेण निर्मितम् एतत् सम्मिश्रितं कार्यं भवति, यत् लेखमाध्यमेन सामान्यं विहङ्गावलोकनं कारयति। अन्यविश्वकोषवत्, विकिपीडिया-जालस्य अपि आरम्भिकस्तरे एव उपयोगः करणीयः। एतत् कस्यापि विषयस्य विस्तृतं विहङ्गावलोकनं दत्त्वा युष्मभ्यम् उच्चगुणवत्तायुक्तं प्राथमिकं, द्वितीयं च स्रोतः अन्वेषयितुं सहायकं भवितुम् अर्हति।

विकिपीडिया-जालं युष्माकं सहायकं भवितुम् अर्हति :

कस्यापि विषयस्य विहङ्गावलोकनाय

कस्यापि विषयस्य सम्बद्धावश्यकानां कार्याणां सूचीनिर्माणाय

सम्बन्धितलेखान् अन्वेष्टुम्

विकिपीडिया-लेखानां निर्माणं कथं भवति?

विकिपीडिया-जालस्य सामान्यः लेखः एकस्मिन् प्रयत्ने एव न रच्यते। पौनःपुन्येन विभिन्नानां सम्पादकानां सहकारद्वारा सम्पादनानां शृङ्खलायाः कश्चन लेखः विकसितः भवति। केनचित् योगदानकर्तृणा कदाचित् लेखस्य आरम्भः कृतः स्यात्, तस्मिन् लेखे केनापि अन्येन पाठ्यं योजितं स्यात्, ततः केनापि तृतीयेन जनेन अनुभूतं स्याद्यत्, एषः पाठकानुकूलः कर्तुं शक्यते इति। अतः कमपि लेखं "मम लेखः" इति कोऽपि वक्तुं न शक्नोति, तथापि बहवः जनाः दृढतया तं लेखम् अनुरक्षन्ति, यतो हि ते स्वस्य महान्तं समयं तस्य लेखस्य कृते निवेशं कृतवन्तः।

page 3

विकिपीडिया-लेखस्य मूल्याङ्कनस्य अवलोकनम्

प्रत्येकं पृष्ठस्य शीर्षभागे इतिहासः इत्यस्मिन् नुदित्वा लेखः कथं विकासङ्गतः इति यूयं द्रष्टुं शक्नुथ। लेखस्य सर्वाणि पुरातनानि संस्करणानि तत्र लभन्ते।

इतिहासः इत्यस्य पृष्ठस्य प्रत्येकं पङ्क्तिः एकम् एकं संस्करणं प्रदर्शयति। किमपि संस्करणं द्रष्टुं दिनाङ्के नुदत। यूयं द्रक्ष्यथ यत्, प्रत्येकं संस्करणेन सह तस्य सम्पादकः युक्तः अस्ति, येन तत् सम्पादनं कृतम् आसीत्।

वर्तमाने, पुरातने च संस्करणे भेदः दृश्यताम्

सम्पादनस्य दिनाङ्कः, समयश्च

सम्पादकस्य सदस्यनाम अथवा आइ.पी एड्रेस्

सम्पादकीया टिप्पणी

रेडियो-गण्डस्य चयनं कृत्वा तयोः उभयोः सम्बन्धितस्य संस्करणस्य चयनं कुरुत, ययोः यूयं तुलनां कर्तुम् इच्छथ। ततः चितानाम् आवृत्तीनां तुलना क्रियताम् इत्यस्मिन् नुदत। एवं यूयं कस्यापि लेखस्य द्वयोः संस्करणयोः तुलनां कर्तुं शक्नुथ। यूयं द्वौ स्तम्भौ (columns) द्रक्ष्यथ : वामभागे पुरातनं संस्करणं, दक्षिणभागे च तस्मात् नवीनतरं संस्करणम्। सर्वाणि परिवर्तनानि प्रकाशितानि (highlighted) भविष्यन्ति - तयोः संस्करणयोः समये का सूचना योजिता उत निष्कासिता इति।

पुरातनं संस्करणम्

नवीनं संस्करणम्

page 4

सम्पादकाः कथं विकिपीडिया-जालं परिष्कर्तुं शक्नुवन्ति

जनाः केवलं विश्वकोशस्य लेखरूपेण विकिपीडिया-जालस्य चिन्तनं कुर्वन्ति, परन्तु सम्मुखे विद्यमानात् कार्यात् अधिककार्यं पृष्ठभूमौ भवति, यथा : अर्धाधिकानि विकिपीडिया-सम्पादनानि मुख्यलेखेषु न, अपि तु अन्येषु गौणपृष्ठेषु भवन्ति। सम्पादकगणः लेखस्य विकासक्रमस्य विषये चर्चां, स्रोतसः गुणवत्तायाः मूल्याङ्कनं, सम्पादकीयानां नीतीनां निर्धारणं च करोति। तानि गौणपृष्ठानि, संवादाः (चर्चाः) च सार्वजनिक-समीक्षायै मुक्ताः सन्ति। यदि यूयं जानीथ यत्, तानि गौणपृष्ठानि कुत्र सन्ति, तर्हि यूयं मुख्यलेखवत् तानि अपि द्रष्टुं शक्नुथ।

प्रत्येकं लेखस्य एकं सम्भाषणम् इति पृष्ठं भवत्येव। प्रत्येकं लेखस्य शीर्षभागे स्थिते सम्भाषणम् इत्यस्मिन् नुदित्वा यूयं द्रष्टुं शक्नुथ यत्, लेखस्य निर्माणे कियती विवेचना (विचार-विमर्शः) अभवदिति। भवितुम् अर्हति यत्, यस्मिन् सन्दर्भे यूयं चर्चां कर्तुम् उद्युक्ताः, तस्मिन्नेव सन्दर्भे पूर्वस्मादेव केनापि अन्येन तत्र सम्भाषणं कृतं स्यात्। यदि यूयं लेखस्य स्तरस्य विषये शङ्किताः स्थ, स्वयञ्च तत्परिष्कर्तुं न शक्नुथ, तर्हि यूयं स्वप्रश्नं सम्भाषणपृष्ठे लिखत।

बहूनां प्रश्नानाम् उत्तराणि स्वल्पेषु दिनेषु लभन्ते एव, परन्तु एकसप्ताहे यदि युष्माकं प्रश्नस्य कोऽपि प्रत्युत्तरं न यच्छति, तर्हि उचितं भवति यत्, यूयं साक्षात् लेखस्य योगदानकर्तॄणां सम्पर्कं कुर्यास्त अथवा अधिकसामान्ये सम्भाषणस्थले चर्चां कुरुत। इतिहासः इत्यस्मिन् नुदित्वा तस्य सम्पादकस्य अन्वेषणं कुरुत, येन लेखे अधिकानि सम्पादनानि कृतानि सन्ति। ततः तस्य सम्भाषणपृष्ठस्य परिसन्धौ (link) नुदित्वा तस्य सदस्यस्य सम्भाषणपृष्ठं प्राप्नुत। यूयं यस्य कस्यापि सदस्यस्य सम्भाषणपृष्ठे प्रश्नं कर्तुं शक्नुत।

लेखस्य गुणवत्तायाः परीक्षणं भवति


उत्तमलेखानां, निर्वाचितलेखानां प्रचाराय विशिष्टं प्रतीकम्

विकिपीडिया-लेखस्य गुणवत्तायां व्यापकपरिवर्तनानि जायन्ते; अतः अनेके योग्याः लेखाः सन्ति, परन्तु विषयस्य गाम्भीर्यं, स्पष्टतायाः अभावः, पक्षपातपूर्णं पाठ्यम् इत्यादिभिः कारणैः, कालग्रस्तत्वाच्च बहूनां गणना न भवति। संस्कृत-विकिपीडिया-जाले लेखाः उत्तमलेखः अथवा श्रेष्ठलेखः अथवा निर्वाचितलेखः इति घोषयितुं काचित् औपचारिकी प्रक्रिया उपलब्धा वर्तते। यद्यपि एतस्मिन् जालस्थाने बहूनां लेखानां गुणवत्ता सुष्ठु अस्ति, तथापि तेषां गणना न भवति।

तर्हि यूयं त्वरया (शीघ्रं हि) सामान्यगुणवत्तायाः लेखान् कथं द्रष्टुं शक्नुथ? तस्य कृते द्वौ मार्गौ स्तः :

उत्तमलेखानां तत्त्वानि पश्यत

निम्नस्तरीयानां लेखानां चिह्नं पश्यत

page 5

उत्तमलेखानां तत्त्वानि

सामान्यरूपेण, उच्चगुणवत्तायुक्तेषु लेखेषु एतानि तत्त्वानि आवश्यकानि :

प्रस्तावनायां सरलतापूर्णः सारांशः, लेखस्य विहङ्गावलोकनं च उपलब्धं स्यात्,

स्पष्टं प्रारूपम्,

आवृत्तेषु विषयेषु सन्तुलनम्,

निष्पक्षं पाठ्यम्,

विश्वसनीयानि स्रोतांसि च

प्रस्तावना सरला स्यात्, तस्याञ्च सम्पूर्णस्य लेखस्य मुख्यांशाः अन्तर्भूताः स्युः। यथा - कस्याश्चित् जीवन्याः प्रस्तावनायाम् उल्लेखनीयं यत्, सा व्यक्तिः किमर्थं प्रसिद्धा अस्ति, कुत्र निवसति इति, परन्तु तत्र तस्याः बाल्यकालस्य उल्लेखः उचितः भवति। यतो हि तस्य कृते उचितः (निश्चितः) विभागः आवश्यकः।

प्रारूपं स्पष्टम् अस्ति। लेखे कानिचन शीर्षकाणि, उपशीर्षकाणि, चित्राणि, आलेखाः च निश्चितस्थाने भवेयुः, अन्ते च परिशीष्टं, पादटिप्पणी च भविष्यतः। अधिकतमलेखानां सामग्रीव्यवस्थिता कालानुक्रमिका अथवा प्रसङ्गानुरूपा भवति।

विभिन्नैः पक्षैः युक्तलेखस्य विषयेषु सन्तुलनम् आवश्यकम्। कस्मिंश्चित् एकस्मिन्नेव पक्षे लेखः न भवति, विभिन्नानां पक्षाणां समावेशः आवश्यकः भवति। अधिकः महत्त्वपूर्णः दृष्टिकोणः लेखे अधिकं स्थानं प्राप्नोति। यथा, गोः विषये कोऽपि लेखः अस्ति, तस्मिन् गोः शारीरकविशेषाताः विस्तारेण वर्णिताः भवन्ति। परन्तु तस्याः स्वभावस्य विषये न्यूनतरा सूचना प्राप्यते अथवा सूचना एव न प्राप्यते। अर्थात् विषयेषु योग्यतया सन्तुलनं नाभवत्।

निष्पक्षं पाठ्यम्। लेखः पक्षपातरहितः लेखनीयः; यत्र विद्वत्सु (scholar) कस्मिँश्चित् विषये मतभेदः स्यात्, तत्र योग्येन सन्तुलनेन सह विभिन्नाः दृष्टिकोणाः समाविष्टाः करणीयाः। तेषां विश्वसनीयस्रोतसि सकारात्मकः, नकारात्मकः च उभौ पक्षौ योग्यानुपाते सम्मिलितौ करणीयौ। कस्मिँश्चित् योग्ये लेखे निष्पक्षभाषा, दृढतथ्यानि अपि अन्तर्निहितानि स्युः। लेखः कस्यचित् उत्तेजकनिबन्धस्य रूपेण न, अपि तु विश्वकोशीयलेखस्य रूपेण पठनीयः।

विश्वसनीयस्रोतसः सन्दर्भाः अतीव महत्त्वपूर्णाः भवन्ति। उत्तमलेखस्य अन्ते पादटिप्पणीनां प्राचुर्यं भवति। यदि यूयं कस्मिँश्चित् लेखे आधिकारिकप्रकाशनानाम् अनेकान् परिसन्धीन् (सन्दर्भान्) पश्यत, तर्हि सः उत्तमलेखस्य सङ्केतः अस्ति यत्, यूयं कञ्चन उच्चगुणवत्तायुक्तं लेखं पठन्तः स्थ। मङ्गलग्रहस्य लेखे कस्यचित् खगोलशास्त्रिणः जालवृत्तस्य (blog) सन्दर्भः न, अपि तु इसरो-संस्थानस्य जालस्थानस्य सन्दर्भः भवेत्।

page 6

निम्नगुणवत्तायाः सङ्केताः

लेखस्य शीर्षभागे पूर्वसूचनासन्देशः भवति। अधिकतमाः पूर्वसूचनासन्देशाः केवलं सूचनाः अथवा अनुरोधाः भवन्ति। यथा- यदि लेखः अत्यन्तलघुः अस्ति, तर्हि लेखं विस्तारयितुं युष्मभ्यं निवेदनम् इत्यादि स्यात्। परन्तु पूर्वसूचनासन्देशः लेखस्य पक्षपातस्य अथवा सन्दर्भस्य निम्नगुणवत्तायाः विषये अनिर्णीतं विवादम् अपि प्रदर्शयति।

प्रस्तावनायां केचन भाषाकीयदोषाः भवन्ति। प्रारम्भे दृश्यमाना समस्या सम्पूर्णस्य लेखस्य समस्यां प्रदर्शयति। प्रस्तावनायाः लघुत्वं प्रदर्शयति यत्, सम्पूर्णस्य लेखस्य चिन्तनम् अकृत्वा एव अनेकेषु भागेषु लेखस्य विकासः जातः अस्ति इति।

लेखनभाषायां स्रोतहीनानि मतानि, मूल्यकथनम् (statement) च भवन्ति, तानि तटस्थानि न भवन्ति, तानि च निष्कासनीयानि एव। यथा, "सः सर्वोत्तमः गायकः आसीत्" इत्यस्य स्थाने एतत् कथनम् उचितं भवति यत्, "प्रथमानि चतुर्दश प्रसिद्धानि गीतानि सः अगायत्। एतावता कोऽपि अन्यः गायकः तथा नाकरोत् इति।"

केचन बहवः अथवा कस्यचित् अनामदलस्य जनाः इत्यादि लेखे सम्मिलितं भवति। एतानि कथनानि अतीव सामान्यानि सन्ति, तानि तथ्यैः परिवर्तनीयानि।

पाठ्यसरण्यां, लेखे च विषयस्य केचन पक्षाः नोद्धृताः इति अनुभूयते। उदाहरणम् - कस्याँश्चित् जीवन्यां व्यक्तेः जीवनस्य कोऽपि कालखण्डः एव अनुल्लिखितः। कदाचित् तस्य कालखण्डस्य किमपि महत्तपूर्णं तथ्यं न प्राप्तं स्यात्।

केचन विभागाः विषयस्य महत्तायाः अत्यधिकाः बृहन्तः प्रतीयन्ते। यथा, कस्याश्चित् संस्थायाः लघुलेखे आलोचनायाः (criticism) बृहन् विभागः भवति। तत् प्रदर्शयति यत्, संस्थायाः विरुद्धं पक्षपातपूर्णः लेखः लिखितः इति।

लेखे सन्दर्भस्य न्यूनता अथवा लेखस्य सारभूते भागे स्वल्पा पादटिप्पणी। यदि कोऽपि लेखः स्वल्पसन्दर्भान् आधारीकृत्य निर्मितः, तर्हि विषयस्य पर्याप्तां सूचनां विना एव लेखः लिखितः इति बोध्यम्।

लेखस्य सम्भाषणपृष्ठं द्वेषपूर्णाभिः चर्चाभिः परिपूर्णम्। ये सम्पादकाः लेखस्य विस्ताराय कार्यं कुर्वन्तः सन्ति, ते यदि सहमताः न भवन्ति, तर्हि कस्मिँशित् एकस्मिन् पक्षे एव पक्षपाती लेखः स्यात्। अथवा लेखस्य अविवादितान् पक्षान् योग्यरूपेण अलिखित्वा, विवादास्पदपक्षे एव विस्तारेण सूचनाः लिखिताः स्युः।

page 7

निम्नगुणवत्तायुक्तानां लेखानां किं करणीयम्

यदि युष्माकं पार्श्वे पर्याप्तः समयः अथवा ज्ञानम् अस्ति, तर्हि कृपया लेखस्य शीर्षभागे विद्यमाने सम्पाद्यताम् इत्यस्मिन् नुदित्वा स्वयमेव समस्यायाः समाधानं कुरुत।

1) परीक्षत यदि समस्या अल्पकालीना अस्ति, तर्हि इतिहासः इत्यस्मिन् नुदित्वा कानिचन अन्तिमानि सम्पादनानि पश्यत। यथा, कोऽपि कमपि विभागं निष्कासयितुं प्रयासं कुर्वन् अस्ति, यतो हि तस्य आदर्शस्य विषये अनाकर्षकं लिखितम् अस्ति।

2) यदि समस्या केवलम् अन्तिमसम्पादने एव अस्ति, तर्हि प्रमुञ्चतु इत्यस्मिन् नुदित्वा शीघ्रम् एव तस्याः परिहारः शक्यः। यदि दीर्घकालपूर्वस्य काचित् समस्या अस्ति अथवा यूयं तां सूचनां परिष्कर्तुं या प्रक्रिया अस्ति, तां न जानीथ, तर्हि सम्भाषणम् इत्यस्मिन् पृष्ठे टिप्पणीं लिखित्वा समस्यायाः विवरणं लिखत।

3) यदि समस्या गम्भीरा अस्ति, यथा, कस्यचित् जीवितराजनेतुः विरुद्धम् अपमानजनिका टिप्पणी स्यात्, तर्हि यूयं समस्यात्मकं भागम् अपाकर्तुं स्वतन्त्राः स्थ। यदि यूयं स्वयं, स्वस्य राष्ट्रस्य अथवा संस्थायाः लेखे कार्यं कुर्वन्तः स्थ, तर्हि स्वस्य पक्षपातपूर्णस्य आचरणस्यापि चिन्तनं कुरुत। तदा लेखस्य गम्भीराः विभागाः यथोचिताः, आवश्यकाः च भवन्ति, यदा ते उचितैः सन्दर्भैः सहिताः भवन्ति। तदा युष्माभिः पाठ्यस्य अपाकरणस्य कारणं सम्भाषणम् इत्यस्मिन् पृष्ठे लेखनीयम् एव।

यदा यूयं निम्नगुणवत्तायुक्तं लेखं पश्यत, तदा युष्माभिः किं करणीयम् इत्यस्मिन् विषये अधिकं विवरणं प्राप्तुम् अन्वेषणपटिकायां विकिपीडिया:उत्तमलेखस्य रचनायै मार्गदर्शनम् इति लिखत।

page 8 (back cover)

किं यूयं विकिपीडिया-जालस्य यथार्थतायां विश्वासं कुरुत?

विश्वसनीयता महत्त्वपूर्णा अस्ति।

बहुभ्यः जनेभ्यः विकिपीडिया-जालस्य उपयोगः अत्यधिकः अथवा स्वल्पः विश्वसनीयः भवति, परन्तु यूयं कथं ज्ञातुं शक्नुथ यत्, यूयं गुणवत्तायुक्तां सूचनां प्राप्तवन्तः इति?

"विकिपीडियामूल्याङ्कनम् : क्रमिकस्य विकासस्य अन्वेषणं कृत्वा लेखानां मूल्याङ्कनं करोति" एषा काचित् सोपानबद्धा सन्दर्भसहिता मार्गदर्शिका अस्ति। यूयं विकिपीडिया-जालात् उपयोगीं सामग्रीं स्वीकर्तुं शक्नुथ।

अधिकायै सामग्र्यै :

http://bookshelf.wikimedia.org

कानिचत् विशेषनिर्देशनयुक्तानि चित्राणि विहाय विकिमीडिया-सार्वजनिके सर्वाणि चित्राणि CC BY-SA अधिकारे अथवा सार्वजनिके अन्तर्भवन्ति। सर्वाणि चित्राणि रचनात्मक-सार्वजिनकस्य (Creative Commons) अन्तर्गततया Attribution-ShareAlike इत्यस्य ३.० संस्करणे अथवा आगामिसंस्करणेषु उपलब्धानि भवन्ति।

विकिमीडिया-संस्थानस्य, अन्यसंस्थानां सान्दर्भिकाः, चिह्नानि च रचनात्मक-सार्वजिनक-अधिकारे न अन्तर्भवन्ति। विकिमीडिया-संस्थानस्य काश्चित् सान्दर्भिकाः पञ्जीकृताः सन्ति, काश्चिच्च सान्दर्भिकाः पञ्जीकरणाय क्रमे सन्ति, तासाम् आवलिः एवम् अस्ति - विकिमीडिया-संस्थानं (फाउण्डेशन्), विकिपीडिया, विकिमीडिया-सार्वजनिकम्, मीडियाविकि, विकिकोशः, विकिपुस्तकम्, विकिडाटा, विकिसमाचारः, विकिसूक्तिः, विकिविद्यालयः, विकियात्रा, विकिजन्तु, मेटा-विकि च।

http://wikimediafoundation.org/wiki/Trademark_Policy. अत्र अस्माकं व्यवसायनीतिं दृष्ट्वा अधिकं विवरणं प्राप्यताम्।

legal@wikimedia.org अत्र वि-पत्रं कृत्वा अस्माकं व्यवसायनीतिविषये अथवा अधिकारनियमविषये प्रश्नं कर्तुं शक्नुयात।