User:Premsai 7007
राजकीयपूर्वभागः नेहरु महाभागः तथा तेन साकं ये कारागृहे आसन् तेषां मोचनम् अभवत् । ब्रिटिश्जनाः राजकीयप्रभुत्वं भारतीयानां कृते ह्स्तान्तरितं कर्तुं निश्चितवन्तः। तदर्थं ब्रिटिश् केबिनेट् मुख्यस्थाः भारतमागताः ।[६] यदा नेहरुमहाभागः प्रधानमन्त्रित्वेन कार्यभारम् ऊढवान् तदा भारते हिन्दूमुस्लिं कलहः तस्य कार्ये प्रत्यूहवत् अभवत् । महमदाली जिन्ना मुस्लिमजनानां कृते स्वतन्त्र्यदेशः आवश्यकः इति आग्रहं कृतवान् । अत एव एताद्दशविघ्नानां मध्ये तस्य कार्यम्सहकरिणः अग्रे न गतम् । मुस्लिं जनानां तथा हिन्दूनां सहयोगेन भारते यदा प्रजाप्रभुत्वराज्यं कर्तुं न शक्तः तदा नेहरु भारतस्य विभजनं कर्तुं अनिच्छया अङ्गीकृतवान् । विभागः तु यथा ब्रिटिश्जानानां योजनानुसारम् अभवत् । अयं विभागः तु जून् ३ दिनाङ्के १९४७ वर्षे अभवत् । तदा आग्स्ट १५ दिनाङ्के सः प्रधानमन्त्रिरुपेण प्रमाणवचनं स्वीकृतवान् । तदनन्तरं तस्य प्रथमभाषणं Tइति प्रसिद्धम् । तस्य भाषणस्य सारांशः एवम् आसीत्- 'अस्माकं लक्ष्यं प्रति गन्तुं सन्धानं कृतम् । इदानीं सन्धानस्य फलप्राप्त्यर्थं समयः आगतः । पूर्णतया कर्तुं न शक्यते चेदपि किञ्चिद् वा कर्तु प्रयतनीयम् । मध्यरात्रे १२ वादने यदा सर्वे सुप्ताः आसन् तदा स्माकं देशः जागरितः आसीत्। स्वातन्त्र्यं तु प्राप्नोत् । दुर्लभं तादृशं क्षणं सर्वदा न लभ्यते। प्राचीनं सन्त्यज्य अस्माभिः नावीन्यं प्राप्तम् अस्ति। देशस्य चरिते ईद्दशं क्षणं पुनः न आगच्छति । एतावत् पर्यन्तं येषां वाक्, मनः सर्वंक्षुल्लककारणेन निगूढे आसीत् इदानीम् तेषां स्वातन्त्र्यम् आगतम् । अस्मिन् सन्दर्भे भारतस्य तथा भारतीयतायाः च सेवां कर्तुं वयं प्रतिज्ञां कुर्मः मानवतां च न त्यजाम ’ इति। तस्मिन् काले मतान्तरकलहाः बहुत्र वर्धन्ते स्म । अयं कलहः पञ्जाब् देसाहाय्यकरणं हली बङ्गाल् इत्यत्र सर्वत्र प्रसारितः आसीत् । नेहरु मुस्लिम् नेतृभिः साकं आभारतं सञ्चरन् सर्वत्र देशे शान्तिस्थापनाय तथा अभवताम् शरणार्थिनां मनः प्रसादनार्थं प्रायतत । सः मौलाना आजाद तथा अन्यैः नेतृभिः साकं मुस्लिमबान्धवानां भारते स्थातुं तथा योगक्षेमं वोढुं च वार्तालापं कृतवान् । देशस्थितिं वीक्ष्य तस्य मनोवेदना सञ्जाता
१९४७ तमे वर्षे -भारत-पाकीस्तानयुद्धं रोद्धुं युनैटेड नेशन्स् साहाय्यं प्रार्थितवान्। पाकिस्दशस्य तथा भारतस्य च मध्ये स्थितं हैदराबाद् इति प्रान्तं भारतस्य इति उद्धोषयितुं नेहरु मनः न चकार। यतः मतीयकलहः भवेदिति। बि.जे.पी नायकः जस्वन्तसिङ्गः एवं वदति " नेहरुमहोदयस्य चिन्तनानि एव अस्माकं भारतस्य विभजने कारणीभूतानि अभवन्। यतः सः एकत्र प्रभुत्वम् इच्छति जिन्ना तु विभागीयप्रभुत्वम् इच्छति। एतयोः मध्ये मनस्तापः एव विभजनस्य अन्यतमं कारणमभवत् । भारतस्वातन्त्र्यानन्तरं नेहरु तस्य पुत्रीम् इन्दिराम् एव तस्य तथा तस्य कार्यकलापस्य पर्यवेक्षिकारूपेण आयोजयामास । तस्य नेतृत्वे १९५२ निर्वाचने काङ्ग्रेस् पक्षः बहुमतं प्राप्नोत्। ततः इन्दिरा नेहरुगृहमेव आगत्य तस्य सर्वाङ्गीणकार्यं पश्यन् तेन साकं स्वदेशविदेशपर्यटनं कृतवती । एषा तस्य कार्यकर्तृषु प्रमुखा अभ