User:Rambonasu

From Outreach Wiki
Jump to navigation Jump to search
                                                 मुक्यमन्त्रि नरेन्द्र मोदि

उत्तरगुजरातस्य महेसाणाजनपदस्य वडनगरनामक: कश्चन लघुग्राम:, यत्र १९५० (1950) तमे वर्षे सप्टेम्बरमासस्य सप्तदशदिनाङ्के नरेन्द्रमहोदयस्य जन्म अभवत्। संस्कृते: प्रभावात् औदार्यं, परोपकार:, सामाजिकसेवामूल्यानि च बाल्यादेव वर्धितानि। १९५०-६० (1950-60) तमवर्षेषु भारत-पाकिस्तानयो: युद्धावसरे लघुवयसि अपि स्थानान्तरणावसरे सैनिकानां सेवां स्वेच्छया कृतवान्। १९६७ तमे वर्षे गुजरातस्य जलाप्लावेन पीडितानां सेवां कृतवान्। सङ्घटनात्मककार्येषु सामथ्र्यकारणत: मनोविज्ञाने च नैपुण्यकारणात् स: अखिलभारतीयविद्यार्थिपरिषद: छात्रनेतृत्वेन चित:। तत: तेन गुजराते विभिन्नेषु सामाजिक - राजकीय - आन्दोलनेषु महत्त्वपूर्णा भूमिका ऊढा।

किशोरावस्थाया: आरभ्य एव तेन बह्व्य: समस्या: बहूनि कष्टानि च सम्मुखीकृतानि, परं स्वव्यक्तित्वस्य सम्पूर्णशक्त्या: साहसेन च सर्वाण्यपि आहवानानि अवसररूपेण परिवर्तितानि। विशिष्य यदा उच्चशिक्षणं प्राप्तुं तेन महाविद्यालय विश्वविद्यालये च प्रवेश: प्राप्त: तदा तस्य मार्ग: सङ्घर्षै: कष्टदायकपरिश्रमै: च आवृत: आसीत् परं जीवनसङ्घर्षे स: सर्वदा एक: योद्धा आसीत्, सत्यनिष्ठ: सैनिक: च आसीत्। एकवारं पदं पुर: स्थापयित्वा न कदापि पृष्ठत: अवलोकितम्। तेन न कदापि पराजय: अङ्गीकृत:। एवं दृढश्चियेनैव स: राजनीतिशास्त्रम् अधिकृत्यं अनुस्नातकाध्ययनं समापयितुं समर्थो जात:। येन भारतस्य सामाजिक: सांस्कृतिक: विकास: च सर्वदा इष्ट: (लक्षित:) तादृशस्य राष्ट्रीयस्वयंसेवकसङ्घस्य सङ्घटनस्य कार्येण कार्यम् आरब्धम्। अनेन कार्येण एव नि:स्वार्थता सामाजिकम् उत्तरदायित्वं समर्पणं राष्ट्रवाद: च इत्येतेषां भावना: आत्मसात् कृता:।

आर्. एस्. एस्. मध्ये स्व-कार्यकालावसरे श्री नरेन्द्रमोदीवर्य: १९७४ (1974) तमे वर्षे भ्रष्टाचारविरुद्धे आन्दोलने आपातकाले यदा भारतीय नागरिकाणां मूलाधिकाराणां हननं जायमानम् आसीत् तदा तादृशेषु अवसरेषु तेन महत्त्वपूर्णा: भूमिका: निरूढा:।

मोदीजी अस्मिन् समये भूगर्भवासं कृत्वा गुप्ततया केन्द्रसर्वकारस्य दुष्टनीतिनां विरुद्धं शक्तिपूर्वकं युद्धं कृत्वा प्रजाशासनस्य (लोकशासनस्य) भावनां जीवितां रक्षितवान्।

१९८७ (1987) तमे वर्षे भारतीयजनतापक्षे स्वात्मानं योजयित्वा राजनीते: मुख्यधारायां प्रविष्ट:। वर्षस्य अन्ते गुजरातस्य महामन्त्रिपदे स: नियुक्त:। तावता अत्यन्तं कुशलसङ्घटकत्वेन ख्याति: अपि प्राप्ता।

वस्तुत: तेन पक्षस्य कार्यकर्तृन् सक्रियान् कर्तुम् आह्वानरूपं कार्यं स्वीकृतम्। तस्मादेव कारणात् पक्षेण राजकीयलाभा: अपि प्राप्ता:। १९९० तमे वर्षे (1990) एप्रिल् मासे केन्द्रीयशासने मिश्रसर्वकारस्य रचना अभूत्। कतिचन मासानाम् अनन्तरम् एव इदं राजनैतिक सम्मिश्रणं नष्टम् अभवत्। परं २/३ बहुमतं प्राप्य भारतीयजनतापक्ष: गुजराते सत्तारूढ: जात:। तदा आरभ्य गुजरातस्य शासनसूत्रं भारतीयजनतापक्षस्य हस्ते अस्ति।

१९८८ त: १९९५ पर्यन्तं य: काल: अतीत: तस्मिन्नेव काले श्रीनरेन्द्रमोदी वर्यस्य परिचय: कुशल: रणनीतिज्ञ: इति रूपेण उद्भूत:। येन च गुजराते भारतीयजनतापक्ष: शासनकर्तृ - पक्षत्वेन सफलतापूर्वकं परिचायित:। अस्मिन्नेव काले अत्यन्तं महत्वपूर्णयो: द्वयो: कार्यक्रमयो: आयोजनस्य उत्तरदायित्वं मोदीमहोदयाय दत्तम्। तत्र प्रथमम् आसीत् श्रीमत: लालकृष्ण - अडवाणीमहाशयस्य सोमनाथात् आरभ्य अयोध्यां यावत् आयोजिता रथयात्रा। तद्वदेव भारतस्य दक्षिण भागात् कन्याकुमारीत: कश्मीरं यावत् एका यात्रा। १९९८ (1998) तमे वर्षे देहल्यां शासनं परिवत्र्य भाजपस्य उदयार्थं श्रेयो यदि देय: तर्हि तदेताभ्यां कार्यक्रमाभ्याम्, यस्य उत्तरदायित्वं मुख्यत्वेन मोदीवर्येण ऊढम्।