User:Sireesha25

From Outreach Wiki
Jump to navigation Jump to search

surya: chandra-सूर्य: चन्द्र:

                                       सूर्यः किञ्चन नक्षत्रं विद्यते । किन्तु ज्योतिष्शास्त्रदृष्ट्या अयं कश्चन ग्रहः इति निर्दिश्यते । खगोलपदार्थेषु सूर्यः अत्यन्तं प्रमुखः अस्ति । तदीयाः किरणाः भूमेः उपरि अन्येषां ग्रहाणाम् उपरि प्रकाशम् उष्णतां च प्रसरन्ति । सूर्यस्य आकर्षणपरिधौ एव अन्येषां ग्रहाणां सञ्चलनं भवति । नित्यजीवनव्यवहारे तस्य प्रभावः अस्ति अनन्यः। सूर्यं विना मानवजीवनस्य कल्पना अपि अशक्या एव। सूर्यस्य व्यासः भवति ८,६५,००० मैल्-परिमितम् । भूमेःविस्तारस्य अपेक्षया १३,००,००० गुणितम् अधिकम् । द्रव्यराशिः भूमेः अपेक्षया ३,३३,००० गुणितम् अधिकम् । अणुप्रक्रियया सूर्ये शक्त्युत्पादनं भवति । सूर्ये प्रचाल्यमानया अनया क्रियया जलजनकः हीलियं-धातुरूपेण परिवर्तिताः भवन्ति इत्यतः द्रव्यराशौ प्रत्येकस्मिन् क्षणे चत्वारि-मिलियन्-टन्-परिमितः भागः न्यूनः भवति । सूर्यः यस्यां वियद्गङ्गायां परिभ्रमति तस्याः केन्द्रभागतः बहु दूरे सीमाप्रदेशे विद्यते । वियद्गङ्गायाः केन्द्रतः सूर्यः ३०,००० ज्योतिर्वर्षाणाम् अन्तरे विद्यते । पृथ्वी सूर्यमण्डले तृतीयः ग्रहः अस्ति । ग्रहाणां गुरुत्वानुगुणं पञ्चमस्थाने भवति । एषा कदाचित् लोक:, वैज्ञानिकभाषायां Earth वा अपि भाष्यते। पृथिवी ४।५४ कोटिवर्षेभ्य: प्राक् जनिमलभत। जैवविविधता एतस्या: ख्याति:। पृथिव्या: पर्यावरणं कालश: तस्या: वातावरणं विध: कृतं तेन च जीवसृष्टि: निर्मिता। पृथिव्या: उपरि एका ओझोन (Ozone layer) नाम्ना पट्टिका अस्ति। एतस्या: पृथिव्या: रक्षण: भवति।

जलेन विना जीवितं व्यर्थम् इति उक्तं सत्य:। जलस्य लाभ: पृथिव्याम् अतीव। अत: पृथिव्यां जीवन: सुसह्य: अस्ति।

external link: sa.wikipedia.org/s/om6/surya chandra reference link: [1]


निराबन्ध|मध्य|about the surya ;;ozone layer

  1. wikipedia.org/surya chandra/in+sanskrit+language