User talk:Dhivz

From Outreach Wiki
Jump to navigation Jump to search
                                                                                             "भरतनात्य  हस्तविनीयोग"
                                                                  असम्युत हस्तविनीयोग


१) पत्ताक हस्त :

नाट्यारम्भे वारिवाहे वने वस्तुनिषेधने । कुचस्थले निशायाञ्च नद्याम् अमरमण्ङले ॥ तुररङ्गे खण्ङने वायौ शयने गमनोद्यमे । प्रतापे च प्रसादे च चन्द्रिकायाम् घनातपे ॥ कवाटपाटने सप्तविभक्त्यर्थे तरङ्गके । वीथिप्रवेशभावेऽपि समत्वे च अङ्गरागलके ॥ आत्मार्थे शपथे चापि तूष्णीम्भावनिदर्शने । तालपत्रे च खेट॓ च द्रव्यादिस्पर्शने तथा ॥ आशीर्वादक्रियायाञ्च नृपश्रेष्ठस्य भावने । तत्र तत्रेति वचने सिन्धौ च सुकृतिक्रमे ॥ सम्बोधने पुरोगेऽपि खड्ग रूपस्य धारणे । मासे सम्वत्सरे वर्षदिने सम्मार्जने तथा ॥ एवमर्थेषु युज्यन्ते पताकहस्तभावनाः ॥


२) मुष्टि हस्त :

स्थिरे कचग्रहे दाढर्ये वस्त्वादीनाम्च धारणे मल्लनाम् युद्धभावेऽपि मुष्टिहस्तोयाम् इष्यते ॥


३) अराल हस्त :

विषादि-अमृतपानेषु प्रचण्ड पवनेऽपि च ॥


४) शुकतुण्ड हस्त :

बाणप्रयोगे कुन्तार्थे वा आलयस्य स्मृतिक्रमे मर्मोक्त्याम् उग्रभावेषु शुकतुण्डो नियुज्यते ॥


५) सर्पशीर्ष हस्त :

चन्दने भुजगे मन्द्रे प्रोक्षणे पोषणादिषु देवस्य उदकदानेषु आस्फाले गजकुम्भयोः भुजस्थाने तु मल्लानां युज्यते सर्पशीर्षकः ॥


६) त्रिशूल हस्त :

बिल्वपत्रे त्रित्वयुक्ते त्रिशूलकर ईरितः ।