User:Neesha Thunga K
प्राचीनशिंक्षणपद्धत:
प्राचीनकाले अस्माकं देशस्य शिक्षणपद्धते: अपि एतत् एव आसीत् । तस्य परिणामोऽपि उत्तम: एव आसीत् । पुरुषो वा स्त्री वा यदि दुराचारी भवति तस्य शिक्षणं न दातव्यमिति आसीत् । ये पूर्णविद्यायुक्ता:, धार्मिका: ते एव शिक्षणं दातुं शक्नुवन्ति ।
शिक्षा नाम केवलं विषयाणां संग्रह: नासीत् । चत्तसषु भित्तिषु मध्ये कतिपयविषयान् ज्ञात्वा निर्दिष्टसमये वमनप्रक्त्रिया इव नासीत् । बाल्येषु शिशूनां शिक्षा, गुण:, कर्म, स्वभाव इत्याद्यभरणानि मातॄपित्राचार्यै: एव दातव्यानि न तु सौवर्णानि राजातानि च आभरणानि ।
गर्भाष्टमे वर्षे उपनयनसंस्कारं प्राप्य ब्रह्मचारिण: गुरुकुलं प्रविशन्ति स्म । तत्र गुरुभि: जीवने आचर्यमाणान् आचारविचारान्प ठन्ति स्म । तस्मिन्नेव वातावरणे गुरुगुरुपत्नीनां मार्गदर्शने शिष्याणाम् (अन्तेवासिनां) अध्ययनं जीवनं च आसीत् । गुरूणां गुरुपत्नीनां सेवां कुर्वन्त: छात्रा: श्रद्धया अध्ययनं कुर्वन्त: आसन् । छात्रा: समित्पणाय: गुंरूसमीपं गच्छन्ति स्म। गुरु: तादृशेभ्य: स्वगृहे एव अवकाशं कल्पयित्वा तान् सम्यक् परीक्ष्य एव विद्यां पाठयति स्म । प्रश्नोपनिषदि एतादृशम् उदाहरणं वयं प्राप्नुम: अथर्ववेदस्य एषा उपनिषत् गद्यरूपावर्तते । प्रश्नै: एव युक्ता इतिकारणात् अस्या: नाम प्रश्नोपनिषत् इत्येव ज्ञातम् । भारद्वाजपुत्र: सुकेशा:, शिबिपुत्र: सत्यकाम:, गर्गगोत्रस्य सौर्ययणी,अश्वलपुत्र: कौसल्य:, विदर्भदेशस्य भार्गव, कत्यपुत्र: कबन्धी एवं षड् छात्रा: ब्रह्मनिष्टा: परब्रह्मान्वेषणं कुर्वन्त: गुरो: पिप्पलादस्य समीपं समित्पाणय: एव गतवन्त: इति उपनिषदि ज्ञायते । गुरु: पिप्पलादोऽपि असामान्य: । स: शिष्याणां प्रश्नानाम् उत्तरं झटिति न प्रदात् । तेषां बुद्धे: मनसश्च परिक्षां कर्तुं संवत्सरं यावत् स्व समीपमेव उषितुम् असूचयत् । तत्र शिष्या: तपसा ब्रह्मचर्येण श्रद्धया गुरो: समीपं वसेयु: । संवत्सरानन्तरं यथाकामं प्रश्ना पृच्छत इत्यावदत् । गुरुसमीपम् आगमनात्पूर्वमेव ते सर्वे उत्तमं जीवनं कुर्वन्त: एव आसन् । एवं शिष्याणां परीक्षाणानन्तरमेव अध्ययनस्य आरम्भ: भविष्यति स्म । छात्राणां सामर्थ्यमवलोक्य विद्या दीयते, न तु अघुना यथा छात्राणां सामर्थ्यनवलोकनेनैव शिक्षा दीयते तथा नासीत् ।
शिष्य: ज्ञानप्राप्त्यर्थं यदा योग्य: इति ज्ञायते तदा गुरु: स्वस्य सर्वस्वमपि शिष्याय प्रयच्छति स्म स्वस्य अज्ञातमपि शिष्या: प्राप्नुवन्तु इति अशीर्भि: अनुगृह्णाति स्म ।
गुरुकुलेषु अघ्ययनं नाम तत् ज्ञानोपासनमेव आसीत् । गुरुशिष्यौ मिलित्वा आचर्यमाणं तप: इत्येव वक्तुं शक्यते । त्तपोनिष्ठया विद्मार्जनं क्त्रियमाणमासीत् अन्तेवासिभि: । तथा आसीत्प्रा चीनाघ्ययनरीति: । अघ्ययनस्य माध्यम: नाम प्रीति:, स्नेह:गौरवमेव आसीत् । छात्रा: प्रतिगृहं गत्वा तत्रत्याभि: मातृभि: भिक्षां प्राप्य भोजनादिकं कुर्वन्ति स्म । मातरोऽपि भिक्षार्थमागतेभ्य: वदुभ्य: स्वपुत्र: इति भावनया एव भिक्षां यच्छन्ति स्म ।
[१]
[२]
http://www.meritnation.com/ask-answer/question/aadhunik-skiksha-pranali-aur-pracheen-shiksha-pranali-mein-a/%E0%A4%A8%E0%A4%BF%E0%A4%AC%E0%A4%82%E0%A4%A7-%E0%A4%B8%E0%A4%82%E0%A4%97%E0%A5%8D%E0%A4%B0%E0%A4%B9/6768244 http://www.vedpradip.com/articlecontent.php?aid=434&linkid=1&catid=0&subcatid=0